________________
बौद्धमतम्।
२५
प्ररूपको देशकः ॥ तत्र दुःखफलभूताः पञ्चोपादानस्कन्धा विज्ञानादयो वक्ष्यमाणाः। त एव हृष्णासहाया हेतुभूताः । समुदयः समुदेति स्कन्धपञ्चकलक्षणं दुःखममादिति व्युत्पत्तितः । निरोधहेतुनराम्याद्याकारश्चित्तविशेषो मार्गः। मार्ग अन्वेषणे, मार्यतेऽन्विष्यते याच्यते निरोधार्थिभिरिति चुरा- 5 दिणिजन्तत्वेनात्प्रत्ययः। निःलेशावस्था चित्तस्य निरोधः । निरुध्यते रागद्देषोपहतचित्तलक्षणः समारोऽनेनेति करणे घनि, मुक्तिरित्यर्थः । दुःखादौनामित्यत्रादिशब्दोऽनेकार्थोऽपि व्यवस्थार्थो मन्तव्यः । यदुकम्
मामीये च व्यवस्थायां प्रकारेऽवयवे तथा। 10
चतुर्वर्थषु मेधावी श्रादिशब्दं तु लक्षयेत् ॥ १ ॥ तत्रादिशब्दः मामीप्ये यथा ग्रामादौ घोष इति, व्यवस्थायां यथा ब्राह्मणादयो वर्णा इति, प्रकारे यथा श्रादया देवदत्तादय इति देवदत्तमदृशा पाढ्या इत्यर्थः, अवयवे यथा स्तम्भादयो ग्रहा इति । अत्र तु व्यवस्थार्थः संगछते । दुःख- 15 मादि प्रथमं येषां तानि तथा तेषामिति बहुव्रीहिः । अथ दुःखतत्त्वं व्याचिख्यासुराह । दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः।
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥५॥ . दःखं दुःखतत्त्वं किमित्याह । संसरन्ति स्थानात्स्थानान्तरं 20 भवानवान्तरं वा गच्छन्तीत्येवंशीलाः संसारिणः स्कन्धाः ।