________________
२४.
घड्दर्शनसमुच्चयः सटीकः ।
कृत्तिः कमण्डलुश्च लिङ्गम्। धातुरतमागुल्फ परिधानं वेषः । शौचक्रिया बही।
मृदौ शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानक चापराखे। द्राक्षाखण्डं शर्करा चार्धरात्रे मोचश्चान्ते शाक्यपुत्रेण दृष्टः ॥ १॥ मणुनं भोथणं भुच्चा मणुन्नं मयणामणं । मणुबंमि अगारंमि मणुनं झायए मुणे ॥ २ ॥
भिक्षायां पात्रे.पतितं सर्वं शुद्धमिति मन्वाना मांसमपि भुञ्जते। ब्रह्मचर्यादिखकौयक्रियायां च भृशं दृढतमा भवन्ति ।
इत्यादिराचारः । धर्मबुद्धसङ्घारूपं रत्नत्रयम् । तारादेवी शामने 10 विघ्ननाशिनी। विपश्यादयः सप्त बुद्धवाः कण्ठे रेखात्रयाङ्किताः सर्वज्ञा देवाः। बुद्धस्तु सुगतो धर्मधातुरित्यादीनि तन्नामानि । भिक्षुमौगतशाक्य शौद्धोदनिसुतताथागतशून्यवादिनामानो बौद्धाः। तेषां शौद्धोदनिधर्मोत्तरार्चटधर्मकीर्तिप्रज्ञा
करदिमागप्रमुखा ग्रन्थकारा गुरवः ॥ 15 अथ प्रस्तुतश्लोकोऽग्रतो व्याख्यायते । बौद्धमते बौद्धदर्शने
सुगतो बुद्धो देवता देवः। किलेत्याप्तप्रवादे। कीदृशः सः । चतुर्णमित्यादि। पाराष्ट्राद्याताः सर्वहेयधर्मेभ्य इत्यार्याः । पृषोदरादित्वाद्र्पनिष्पत्तिः । मतां साधूनां पदार्थानां वा
यथासंभवं मुक्तिप्रापकत्वेन यथावस्थितवस्तुरूपचिन्तनेन च 20 हितानि सत्यानि। अथवा सद्भ्यो हितानि सत्यानि । पार्याणां सत्यानि पार्यसत्यानि तेषामार्यसत्यानामित्यर्थः । चतुर्ण दुःखादौनां दुःखसमुदयमार्गनिरोधलक्षणानां तत्त्वानां