________________
षड्दर्शनसमुच्चयः सटीका।
अथवा लोकस्वरूपेऽप्यनेके वादिनो ऽनेकधा विप्रवदन्ते । तद्यथा। केचिनारीश्वरजं जगन्निगदन्ति । परे सोमामिसंभवम्। वैशेषिका द्रव्यगुणादिषड्विकल्पम् । केचित्काश्यपकृतम्। परे दक्षप्रजापतौयम् । केचिद् ब्रह्मादित्रयैकमूर्ति5 सृष्टम्। वैषणवा विष्णुमयम् । पौराणिका विष्णुनाभिपद्मजब्रह्मजनितमानजम्। त एव केचिदवर्णम् । ब्रह्मणा वर्णादिभिः सृष्टम् । केचित्कालकृतम् । परे चित्याद्यष्टमूर्तीश्वरकृतम्। अन्ये ब्रह्मणो मुखादिभ्यो ब्राह्मणदिजन्मकम् । सांख्याः प्रकृतिभवम् ।
शाक्या विज्ञप्तिमात्रम् । अन्य एकजीवात्मकम् । केचिदनेक10 जौवात्मकम् । परे पुरातनकर्मकृतम्। अन्ये स्वभावजम् ।
केचिदक्षरजातभूतोद्भूतम् । केचिदण्डप्रभवम् । श्राश्रमी बहेतुकम् । पूरणो नियतिजनितम् । पराशरः परिणामप्रभवम् । केचिद्यादृच्छिकम् । नैकवादिनोऽनेकस्वरूपम् । तुरुष्का गोखामिनामैकदिव्यपुरुषप्रभवम्। इत्यादयोऽनेकवादिनो विद्यन्ते । 15 एषां स्वरूपं लोकतत्त्व निर्णयात् हारिभद्रादमातव्यम् । एवं
सर्वगतादिजीवस्वरूपे. ज्योतिश्चक्रादिचारखरूपे च नैके विप्रतिपद्यन्ते । तथा बौद्धानामष्टादशनिकायभेदा वैभाषिकसौचान्तिकयोगाचारमाध्यमिकादिभेदा वा वर्तन्ते । जैमिनेश्च
शिष्यकता बहवो भेदा। . . .. 20 नोवेकः कारिकां वेत्ति तन्त्रं वेत्ति प्रभाकरः ।
वामनस्तुभयं वेत्ति न किंचिदपि रेवणः ॥ १ ॥ अपरेऽपि बहूदककुटीचरहंसपरमहंसभादृप्रभाकरादयो