________________
जैनमतम् ।
१५७
परिणामात्, परमाणोरिव वहिदग्धपाषाणखण्डिकागताचित्तानेरिव वा। प्रयोगश्चायम् । चेतनावान् वायुः, श्रपरप्रेरिततिर्यगनियमितदिग्गतिमत्त्वात्, गवाश्वादिवत् । तिर्यगेव गमननियमादनियमितविशेषणोपादानाच्च परमाणुना न व्यभिचारः, तस्य नियमितगतिमत्त्वात्, जीवपुगलयोरनुश्रेणिरिति । वचनात् । एवं वायुर शस्त्रोपहतश्चेतनावानवगन्तव्यः ॥ ४ ॥ ___ बकुलाशोकचम्पकाद्यनेकविधवनस्पतीनामेतानि शरीराणि न जीवव्यापारमन्तरेण मनुष्यशरीरसमानधर्मभानि भवन्ति । तथाहि। यथा पुरुषशरीरं बालकुमारयुववृद्धतापरिणामविशेषवत्त्वाचेतनावदधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते, तथेदं 10 वनस्पतिशरीरम् । यतो जातः केतकतर्जालको युवा वृद्धश्च संवृत्त इति, अतः पुरुषशरीरतल्यत्वात् सचेतनो वनस्पतिरिति। तथा, यथेदं मनुष्यशरीरमनवरतं बालकुमारयुवाद्यवस्थाविशेषैः प्रतिनियतं वर्धते, तथेदमपि वनस्पतिशरीरमकरकिसलयशाखाप्रशाखादिभिर्विशेषैः प्रतिनियतं वर्धत इति । 15 तथा, यथा मनुष्यगरीरं ज्ञानेनानुगतं, एवं वनस्पतिशरीरमपि, यतः शमीमपुबाटमिद्धेमरकासुन्दकबष्पलागत्यामलकीकडिप्रभृतीनां खापविबोधतस्तद्भावः। तथाधोनिखातद्रविण राशेः खप्ररोहणावेष्टनम् । तथा वटपिप्पलनिम्बादौनां प्रावृड्जलधरनिनादभिभिरवायुसंस्पर्शादडरोद्भेदः । तथा मत्त- 20 कामिनीमनूपुरसुकुमारचरणताडनादशोकतरोः पल्लवकुसमोद्वेदः। तथा युवत्यालिङ्गनात् पनसस्य । तथा सुरभिसरा