________________
[ प्रस्तावना ]
5
मन्येत् । तन्निवारणाय प्रागुक्तविशेषणसंग्टहीतमपि बौद्धमतनिरसनं पुनरिह सूचितं द्रष्टव्यम् । एतेषां परदर्शनानां निरसनप्रकारो ग्रन्थान्तरादवसेयः । तदेवं जिनस्य विशेषद्वारेण सत्यदर्शनतां सर्वपरदर्शन जेतृवचनतां चाभिदधताखिलान्यदर्शनानां हेयता जैनदर्शनस्योपादेयता सूचिता मन्तव्या । ततो नामाङ्कन्यकारात्सत्यासत्य दर्शन विभगानभिज्ञानामप्यपकारः कञ्चन संभवतीति, तद्विभागस्यापि व्यञ्जितत्वात् ॥ तत्रापरः कश्चिदाह । ननु येषां सत्यासत्यमतविभागाविर्भाव के ग्रन्थकारवचसि सम्यगास्था न भविची, तेषां का वार्तेति । उच्यते । येषामास्था न भाविनौ, ते द्वेधा । एके रागद्वेषा - 10 भावेन मध्यस्थचेतसः, अन्ये पुना रागद्वेषादिकालुय्यकलुषितत्वादुर्बोधचेतसः । ये दुर्बोधचेतसस्तेषां सर्वज्ञेनापि वत्यास्त्य - विभागप्रतीतिः कर्तुं दुःशका, किं पुनरपरेणेति तानवगणय्य मध्यस्थचेतस उद्दिश्य विशेषणवृत्त्या सत्यासत्यमतविभागज्ञानस्योपायं प्राह । सद्दर्शनमिति । वौरं कथं भूतम् । मद्दर्शनम् । 15 सन्तः साधवो मध्यस्थचेतस इति यावत् तेषां दर्शनं ज्ञानमर्थात्सत्यासत्यमतविभागज्ञानं यथावदा तत्वपरीचाचमत्वेन यस्माद्दौरात्म सद्दर्शनस्तम् । एतेन श्रौवीरस्य यथावदाप्तत्वादिस्वरूपमेव परौक्षणीयमिति सूचितम् । अथवा तां साधनां दर्शनं तत्त्वार्थश्रद्धानलचणं यस्मात्स सद्दर्शनः । अथवा 20 सन्तो विद्यमाना जौवादयः पदार्थास्तेषां दर्शनं यथावदवलोकनं यस्माद्दौरात्स सद्दर्शनस्तम् । कुत एवंविधम् । यतः