________________
प्रमाणमञ्जरी
[गुणदुःखलक्षणेह्यम् । तयोरिष्टानिष्टबुद्धिजन्यत्वस्वीकारात्तत्र प्रमाणमाह-ते बुद्धिज इति । अनुविधानमनुवर्तनम्।
[वा. टी.] यस्मिन्निति । आत्मनिवारणाय तत्साधनेति । अभिष्वङ्गः अनुरागः । नगादिनिवृत्तये आत्मसमवेतेति द्रष्टव्यम् । एवं दुःखस्यापि सत्यां नगादिबुद्धौ सुखादि भवति नान्यथेति तदन्वयव्यतिरेकानुविधायित्वम् ।
(इच्छा तद्विभागो द्वेषश्च ) प्रार्थना इच्छा। सा द्वेधा-नित्यानित्यभेदेन । महेश्वरस्य नित्या, ईशविशेषगुणत्वात् तद्बुद्धिवदिति । विप्रतिपन्नानि कार्याणि ईशेच्छाजन्यानि, कार्यत्वात्, सम्प्रतिपन्नवदिति । सर्वोत्पत्तिनिमित्तत्वमीशेच्छायाः। अनित्या अनीशानाम् , अनीशविशेषगुणत्वात् , तद्बुद्धिवदिति । रोषो द्वेषः । सोऽनित्यः, जीवविशेषगुणत्वात् , तद्बुद्धिवत् । बुद्धिजत्वं तदन्वयव्यतिरेकानुविधायित्वादिति । [ब. टी.] प्रार्थनेति । प्रार्थनापदवाच्यम् इच्छात्वजातिमदित्यर्थः । घटरूपादौ व्यभिचारवारणाय ईशेति । ईशसंयोगे व्यभिचारवारणाय विशेषेति । अमदादीच्छायां वाधवारणाय महेश्वरस्येति । महेश्वरसंयोगादौ व्यभिचारवारणाय इच्छेति। विप्रतिपन्नानीति । अङ्कुरादौ पक्षधर्मताबलानित्येच्छाजन्यत्वसिध्यनन्तरं घटादिक कार्य पक्षीकृत्य नित्येच्छाजन्यत्वं साध्यते । अङ्करादिसम्प्रतिपन्नो दृष्टान्तः। अङ्कुरादौ सिद्धसाधनवारणाय विप्रतिपन्नानीति । ईशमात्रकर्तृकभिन्नानीत्यर्थः । आकाशादौ बाधवारणाय कार्याणीति । अर्थान्तरवारणाय ईशेति। ईश्वरबुध्यार्थान्तरवारणाय इच्छेति।
[अ. टी.] जीवविशेषगुणषु शब्दादिषु च व्यभिचारवारणार्थम् ईशेति । ईशेच्छैव कुतस्सिद्धा, तस्यास्सर्वोत्पत्तिनिमित्तत्वञ्च कुत इत्यत आह-विप्रतिपन्नानीति । अङ्कुरादीनीत्यर्थः। इच्छाजन्यानीशेच्छाजन्यानीति च द्विविधप्रयोगो ज्ञेयः। प्रथमप्रयोगान्नित्येच्छासिद्धौ पूर्वत्र दृष्टान्तीकृतघटीदेनित्येश्वरेच्छाजन्यत्वमङ्कुरादिवत्साध्यम् । नित्यपरिमाणादौ व्यभिचारवारणार्थ विशेषपदम् । ईशादिविशेषगुणेष्वनैकान्तिकव्युदासाय जीवपदम् ।
[वा. टी. ] इदं भूयादिति प्रार्थनाशब्दार्थः । रोषो द्वेष इत्यत्र पर्यायस्वेऽपि प्रसिद्धत्वाप्रसिद्धस्वाभ्यां लक्ष्यलक्षणभावो युक्तः, खं छिद्रमितिवत् ।
अधीबदिति ख, ग, घ. २ दोष इति मु. ३ तदिति नास्ति क पुस्तके. ४ इत मारभ्य तद्विशेष. गुणस्वाहुद्धिवदित्यन्तो भागो नास्ति मुद्रितपुस्तके. ५ बाधवारणायेति च. ६ इह दृष्टान्त इतिच. ईशपदमिति ज, ट. ८ उत्पत्तिमदिति द. ९द्वेधेति ज, द. १०घटादीति ज, घटादाविति.