________________
निरूपणम् ]
arat
'यथार्थानुभवत्वराहित्य रूपाप्रमात्वसत्वान्न दोषः । स्वविषय इति साध्यविशेषणमुद्देश्यसिद्धये । प्रत्यक्षानुमित्योर्व्यभिचारवारणाय प्रत्यक्षानुमानेत्यन्यत्वविशेषणम् ।
[अ.टी.] स्मृतिलक्षणं द्वितीयं प्रपञ्चयति - उत्तरेति । तस्याः प्रमान्यत्वे प्रमाणमाह- साऽप्रमेति । स्मृतेरपि कार्यतया स्वकारणसंस्कारेलिङ्गतया प्रमाणत्वाद्वाधव्युदासार्थं स्वविषये इत्युक्तम् । प्रत्यक्षान्यत्वमनुमानेऽनुमानान्यत्वञ्च प्रत्यक्षे व्यभिचरति, अत उभयान्यत्वग्रहणम् । [ वा. टी. ] साऽप्रमेति । स्मृतेः कार्यतया खकारणे संस्कारे लिङ्गत्वेन प्रामाण्यात् बाधनिवारणाय स्वे विषये इति । अनुमितौ प्रत्यक्षे च व्यभिचारपरिहाराय पदद्वयम् । न च साधनविकलत्वविपर्ययस्येन्द्रियसन्निकर्षव्याप्त लिङ्गजन्यत्वाभावेन साधनस्य तत्र वर्तमानत्वादिति । नच तत्वज्ञानादेव प्रमात्वं साधनीयम्, खतोऽर्थानवधारणात् । तदाहुः
इति युक्तमप्रमात्वम् ।
तत्र यत्पूर्वविज्ञानं तस्य प्रामाण्यमिष्यते । तदुपस्थापनेनैव स्मृतेस्स्याच्चरितार्थता ॥
(सुखदुःखयोर्निरूपणम् )
यस्मिन्ननुभूयमाने तत्साधनेष्वभिष्वङ्गः तत्सुखम् ।
यस्मिन्ननुभूयमाने तत्साधनेषु द्वेषः तद्दुःखम् । ते बुद्धिजे, तदन्वयव्यतिरेकानुविधायित्वात् यदेवं तदेवं यथा घटः, तथा च प्रकृतम्
तस्मात्तथा ।
[ब. टी.] यस्मिन्निति । अनुभूयमानमात्रं घटादावतिव्याप्तमतः तत्साधनेष्वभिष्वङ्ग इति । एवमपि पुण्ये गतं, सुखसाधनतया ज्ञायमानस्य पुण्यस्य साधने यागादौ ? विद्यादर्शनादिति चेत्-न; अन्यसाधनतया ज्ञायमाने यस्मिन् भावे येन रूपेण ज्ञातेऽन्यँत्रेच्छा तद्रूपाक्रान्तसुखमित्यर्थात् । अतएव ( न १ ) दुःखाभावेनापि सुखत्वभ्रमगोचरतापने चन्दनादावतिव्याप्तिः ।
यस्मिन्निति । अन्यसाधनतया ज्ञायमाने यस्मिन् येन रूपेण ज्ञाते तत्साधने द्वेषखरूपाक्रान्तं दुःखमित्यर्थः । तेन दुःखत्वभ्रमगोचरतापने पापादौ नातिव्याप्तिः । तदन्वयेति । स्वतत्रतदन्वयव्यतिरेकानुविधायित्वादित्यर्थः । तेनान्यथासिद्धे व्यभि - चारवारणम् ।
]अ. टी.] अभिष्वङ्गः अनुरागः । यस्मिन्ननुभूयमाने स्वसमवेततयेति पूरणीयम् । अन्यथा स्वर्णव्रीह्यादावनुभूयमाने तत्साधनेषु वाणिज्यकर्षणादिष्वभिष्वङ्गदर्शनादतिव्याप्तिः स्यात् । एवं
१ स्वेति नास्ति ट. २ कारणे संस्कारे इति ज, ट. ३ तत्साधनेष्वनुषङ्गः तत्समवेत इत्यधिकं मुद्रितपुस्तके. ४ च समवेत इत्यधिकं मुद्रितपुस्तके. ५ भमिद्वेष इति घ. ६ अनुषङ्ग इति छ. ७ अन्यत्रेति नास्ति च पुस्तके, ८ मूर्तस्वमिति छ. ९ सुवर्णेति ज, ट.