________________
६६.
[ गुण
परम्, विषर्यजत्वावच्छिन्नपरं वा । तेनास्मदादिसामान्यप्रत्यासत्तिजन्यग्रहविषये परमावादौ न व्यभिचारः । आत्मनि व्यभिचारनिराकृतये बाह्येति । बाह्ये शरीरग्राह्ये तत्रैव व्यभिचारवारणाय इन्द्रियेति । षोढेति । षडिधा लिङ्गाभासा इत्यर्थः । भाष्ये प्रशस्तपादभाष्ये ।
[अ. टी.] लिङ्गलक्षणे व्यवच्छेद्यलिङ्गाभासज्ञानाय तल्लक्षणमाह-लिङ्गलक्षणेति । अभिमानः प्रत्ययविशेषः । सद्धेतुव्यभिचारवारणाय लिङ्गलक्षणरहिता इत्युक्तम् । प्रत्यक्षाभासादिव्यवच्छेदाय लिङ्गाभिमानविषय इति । अज्ञातोऽसिद्ध इत्युक्ते सपक्षादिधर्मत्वेनाज्ञातस्याप्यसिद्धत्वं स्यादत उक्तम् पक्षधर्मतयेति । सद्धेतुव्यभिचारवारणाय विपक्षग्रहणम् । अनित्यश्शब्दो विभुत्वादित्यादेः केवलविपक्षगामिनो व्युदासीय पक्षग्रहणम् । अनैकान्तिकव्युदासांय "चैवकारः । अनित्यत्वे शब्दस्य साध्यमाने श्रोत्रग्राह्यत्वं विपक्षे शब्दत्वे शब्दे च पक्षे वर्तते, नान्यत्रेति विरुद्धता । विरुद्धादिव्युदासाये पंक्षत्रयग्रहणम् । विरुद्धादिव्युदासांय विपक्षव्यावृत्त इत्युक्तम् । अन्वयव्यतिरेकिव्युदासीय सपक्षव्यावृत्त इति । सत्यपि सपक्षे सपक्षाव्यावृत्तत्वस्य विवक्षितत्वान्न केवलव्यतिरेकिण्यतिव्याप्तिः । प्रमाणाभासविरोधस्सद्धेतोरपि सम्भवति, ततस्तत्रातिव्याप्तिनिरासार्थं प्रमाणविरोधीत्युक्तम् । बाधितविषय इति कालात्ययापदिष्टसंज्ञा । आत्मा नित्यः, सत्त्वे सत्यकारणकत्वात् निरवयवद्रव्यत्वाच्चेत्यविरुद्धहेतुसमावेशव्यवच्छेदाय विरुद्धपदम् । अनित्यश्शब्दः, कृतकत्वात्; नित्यशब्दः, निरवयवत्वात् इति विरुद्धहेतुसमा - वेशव्यवच्छेदाय समबलग्रहणम् । श्रोत्रग्राह्यत्वेन नित्यत्वे शब्दत्वं दृष्टान्तः । अनुमानयोगीन्द्रियाभ्यां ग्राह्यपरमाण्वादिषु व्यभिचारवारणाय अस्मदादीन्द्रियग्राह्यत्वादित्युक्तम् । अस्मदादिमनोग्राह्य आत्मनि व्यभिचारवारणाय बाह्यपदम् । सामान्यादौ तन्निरासाय सामान्यवत्वे सतीत्युक्तम् । इति षोढा षड्विधो लिङ्गाभास इति पूर्वेणान्वयः । असिद्धादिभेदविशेषा दृष्टान्ततदाभासोश्च किमिति नोच्यन्त इति तत्राह - शेषं भाष्य इति । सङ्ग्रहाधिकारान्नात्र विशेषविस्तारोक्तिः । प्रशस्तभाष्याद्युक्तौ साक्षाद्रष्टव्येत्यर्थः ।
प्रमाणमञ्जरी
[वा. टी . ] सपक्षेऽनैकान्तिकनिरासाय विपक्षव्यावृत्त इति । अन्वयव्यतिरेकिनिरासाय सपक्ष इति । भूर्नित्या शशविषाणोल्लिखितत्वादित्यत्रातिव्याप्तिपरिहाराय पक्षेति । भूर्नित्या नित्यरूपवत्वादिति भागासिद्धिनिरासाय एवेति । पक्षव्याप्तिश्चैवकारार्थः । पूर्वप्रमाणविरुद्धेन
१ जन्यत्वेति च २ निराहतयेति च ३ पदमिदं नास्ति च ४ पादेति नास्ति छ ५ ज्ञापनायेति ६ लिङ्गेति इति झ. ७ व्यावृत्त्यर्थमिति ज, ट. ८ व्यवच्छेदायेति ज, ट. ९ व्युदासार्थमिति ज, व्यवच्छेदार्थमिति ट १० चेति नास्ति ज, ट पुस्तकयोः ११ व्यच्छेदार्थभिति ज, ट. दायेति ज, ट १४ इत्युक्तमिति ट. १५ कार्यत्वादिति ज, ट १६ वारणार्थमिति ज, ट १८ अनेकान्तव्युदासार्थमिति ज, व्यवच्छेदार्थमिति ट. १९ निरासार्थमिति ज, ट. यश्चेतिज, ट
१२, १३ व्यवच्छे१७ ग्राहकत्वादिति २० आभासाद
झ.
ट.