________________
निरूपणम्]
- टीकात्रयोपेता पक्षधर्मतयेति । एवञ्च सद्धेतुरपि व्याप्तिविशिष्टपक्षधर्मताज्ञानदशायामसिद्धः । असद्धेतुरपि च तज्ज्ञानदशायां नासिद्ध इत्यालोचनीयम् । उदाहरति-शब्द इति । इदं स्वरूपासिद्धाप्यत्वासिद्धेश्वोदाहरणम् । कांचनमयोऽयमद्रिः अग्निमान, धूमवत्वादित्यादि तु विशेषणाभावादिना आश्रयासिद्धरुदाहरणम् । पक्षविपक्षयोरेवेति। पक्षादित्रिकवृत्तावतिव्याप्तिवारणाय एवेति । वस्तुतस्तु साध्यासहचरितो हेतुविरुद्धः । अत एव जलं गन्धवत् जलत्वादित्यादेस्सङ्ग्रहः । अन्ये तु स्वरूपासिद्ध केवल विपक्षगामिन्यतिव्याप्तिवारणाय पक्षग्रहणम् । अनैकान्तिकेऽतिव्याप्तिवारणाय एवकारः। केवलपक्षे वर्तमानेऽतिव्याप्तिवारणाय विपक्षग्रहणम् । जलं गन्धवत् जलत्वात् इत्यादौ न विरुद्धते. त्याहुः। अन्ये तु पक्षातिरिक्तेऽगृहीतसहचार एव वा विरुद्ध इत्याहुः। पक्षत्रयेति । स्वरूपासिद्धऽतिव्याप्तिवारणाय पक्षवृत्तित्वमुक्तम् । विपक्षाव्यावृत्तसद्धतावतिव्याप्तिवारणाय विपक्षवृत्तित्वमुक्तम् । विरुद्धेऽतिव्याप्तिं वारयितुं सपक्षवृत्तित्वमुक्तम् । सपक्षेति। विपक्षाव्यावृत्ते सद्धेतावतिव्याप्तिवारणाय सपक्षव्यावृत्तत्वम् , विपक्षगतेऽतिव्याप्तिवारणाय विपक्षव्यावृत्तत्वम् । शब्द आकाशगुणः रूपत्वादित्यादिस्वरूपासिद्धेऽतिव्याप्तिभङ्गाय पक्ष इति। न चैवमेवकारवैयर्थ्यम् , तदर्थस्यैव व्यावृत्तान्तेनोक्तत्वात् । प्रमाणेति । समबलप्रमाणप्रसिद्धेऽतिव्याप्तिवारणाय प्रमाणेत्युक्तम् । अधिकामाणबोधितसाध्यविपर्ययकत्वं लक्षणं बोध्यम् । प्रमाणाभासविरुद्धेऽतिव्याप्तिवारणाय प्रमाणेत्युक्तम् । समबलेति । अधिकबलहीनवलयोर्हेत्वोः परस्परं प्रतिक्षेप्यप्रतिक्षेपकभावापन्नयोरतिव्याप्तिवारणाय समबलेति । बलं व्याप्तिपक्षधर्मता । यद्यपि वास्तवं समबलत्वं प्रतिरोधेन सम्भवति, तथापि समबलत्वेन ज्ञायमानत्वं विवक्षितम् । नदीतीरे पञ्च फलानि सन्ति, नदीतीरे पञ्च फलानि न सन्तीत्यादिविरुद्धवाक्येऽतिव्याप्तिवारणाय हेतुत्वमुक्तम् । हेत्वाभासतानिर्वाहकस्य सत्प्रतिपक्षत्वस्य हेतावेव स्वीकारात् । अविरुद्धहेतुद्वयेऽतिव्याप्तिवारणाय विरुद्धेति । द्रव्यत्वादिना समाने व्याप्यत्वादिना वा समाने हेतावतिव्याप्तिभङ्गाय बलेति । विरुद्धयोर्हेतुवाक्ययोरतिव्याप्तिवारणाय द्वयेत्युक्तम् । घटादौ व्यभिचारवारणाय श्रोत्रेति । शब्दत्वं दृष्टान्तः। न च शब्दप्रागभावे व्यभिचारः, शब्दनित्यत्ववादिमते तदभावात् । न च सन्दिग्धे व्यभिचारः, भावत्वंविशेषणस्य देयत्वात् । न च व्यर्थविशेषणत्वशङ्का, एतद्विशेषणमन्तरेणैव व्यभिचारास्फूर्तिदशायां सत्प्रतिपक्षस्वीकारात् । अत एव सत्प्रतिपक्षस्यानित्यदोषता, व्यभिचारस्फूर्ती तदस्वीकारात् । जातौ व्यभिचारवारणाय सत्यन्तम् । समवेतधर्मत्वं तदर्थः। योगिग्राह्ये परमाण्वादौ व्यभिचारवारणाय अस्मदादीति । अस्मदादिदं लौकिकप्रत्यासत्तिजत्व
इत्यवबोध्यमिति च. २ काञ्चनीयोऽयमिति च. ३ पदमिदं नास्ति छ. ४ भङ्गायेति च. ५ पदमिदं नास्ति च. ६ विपक्षावृत्तित्वमिति च. ७ विपक्षाद्यावर्तव्यमिति च. ८ इतः पदचतुष्टयं नास्ति च. ९ वारणायेति च. १० व्यावृत्तत्वेनेति च. ११ प्रतिरुद्ध इति च. १२ बलप्रमाणेति च. १३ अप्रमाणेति च. १४ हेतुत्वेति च. १५ व्यवहार इति छ. १६ व्यभिचारादीति च. १७ पदादीति छ.
प्रमाण०९