________________
[गुण
प्रमाणमञ्जरी [वा. टी.] नयनेति । रसेऽतिव्याप्तिपरिहाराय नयनेति । नयनग्राह्यसत्ताजातिमति घटादावतिव्याप्तिपरिहाराय एकेति । रूपत्वेऽतिव्याप्तिपरिहाराय जातीति । एवमन्यत्रापि ।
(रूपादीनामवान्तरविभागः, तेषां यावद्रव्यभावित्वञ्च)
एते यावाव्यभाव्ययावाव्यभाविभेदविधा। पार्थिवपरमाणोरन्यत्र यावदव्यभाविनः, प्रत्यक्षद्रव्ये प्रत्यक्षतस्तथा सिद्धिः। द्यणुकादिषु रूपादयो यावद्व्यभाविनः, कार्यरूपादित्वात् घंटरूपादिवदिति। सलिलादिपरमाणुरूपादयो यावद्व्यभाविनः, सलिलादिरूपादित्वात् सम्प्रतिपन्नवदिति। [ब. टी. ] एते रूपादयः। पीलपाकवादिमते घटरूपादेरपाकजत्वाद्यावव्यभावित्वात् । प्रत्यक्षतः तर्कोपबृंहितादित्यर्थः । यणुकादिष्वित्यादिपदेन घ्राणादिपरिग्रहः । यावदिति । खाश्रयसमानकालीनध्वंसाप्रतियोगिन इत्यर्थः । पृथिवीपरमाणुनिष्ठरूपादौ व्यभिचारवारणाय कार्यनिष्ठेति। "संयोगादौ व्यभिचारवारणाय रूपादित्वादिति । रूपत्वात् रसत्वादित्यादि पृथगेव हेतुः । यत्पटादिरूपं वादिद्वयमते यावद्रव्यभावि, तहष्टान्तयति-पंटरूपादिवदिति । सलिलादीत्यनुमाने आदिपदेन तेज प्रभृतिपरिग्रहः । परमाणुपदमुद्देश्यसिद्धये । रूपादय इत्यादिपदेन रसादेः परिग्रहः, न तु संयोगादेः। अत्र यत्परमाणौ यो विशेषगुणः स तत्र पक्षः। यद्वा सलिलादिपरमा,विशेषगुणवत्वेन पक्षता । तेन तेजःपरमाणौ रसायभावे वायुपरमाणुषु स्पर्शमात्रसत्वे त्वाश्रयासिद्धिः परास्ता । तेन न वा बाधः । पृथिवीपरमाणुरूपादौ व्यभिचारवारणाय सलिलादीति। संयोगादो व्यभिचारवारणाय रूपादित्वादिति । सम्प्रतिपन्नं जलरूपम् ।
[अ. टी.] रूपादीनामवान्तरविभागमाह-एत इति । परमाणुपाकॉदिक्रियायां घटादिगतरूपादयो यावद्रव्यभाविनः । के तईयावद्रव्यभाविनः पार्थिवपरमाणूनामिति विभागं विशदयति-पार्थिवेति । उभयत्र प्रमाणमाह-प्रत्यक्षद्रव्य इत्यादिना । पार्थिवगुणादौ व्यभिचारव्युदासीय कार्यरूपादित्वादित्युक्तम् ।
१भेदेनेति ग, घ. २ परमाणुभ्य इति क. ३ पार्थिवपरमाणूनां रूपादयो यावद्रव्यभाविन इति ग. ४ पदमिदं नास्ति मु. ५ सिद्ध इति ख, ग, सिद्धा इति क. ६ पदमिदं नास्ति क, ग, घ पुस्तकेषु.
कार्यनिष्ठरूपादित्वादिति बलभद्रोद्धृतः पाठः ८घटादीति ग, पटादीति घ, पटेति ख. ९ आदिपदं मास्ति घ पुस्तके. १० परमाणावेब रूपादेः पाक इति ये वदन्ति ते पीलुपाकवादिनो वैशेषिकाः, तेषां मत इत्यर्थः । ते हि-अवयविनावष्टब्धेष्ववयवेषु पाको न सम्भवति, किन्तु तेजस्संयोगेनावयविषु विनष्टेषु स्वतन्त्रेषु परमाणुष्वेव पाकः । अनन्तरं पक्कपरमाणुसंयोगायणुकादिक्रमेण महावयविपर्यन्तोत्पत्तिः, वह्निसूक्ष्मावयवानां विजातीयवेगाथीनक्रियावशात्पूर्वव्यूहनाशः व्यूहान्तरोत्पत्तिश्चेत्यभिप्रयन्ति । ११ ध्वंससंयोगादाविति च. १२ पदमिदं नास्ति च पुस्तके. १३ परमाणुगुणेति छ. १४ स्थलजलरूपमिति च. १५ पाकप्रक्रियायामिति ज, द. १६ तर्हि तु इति ट. १७ पार्थिवाणूनामिति ज, ट. १८ पार्थिवाणुरूपादाविति ज, ट. १९ वारणायेति ज, ट. २० रूपादित्युक्तमिति ट.