________________
निरूपणम् ]
टीकाप्रयोपेता
કર
[अ. टी.] एवं नवप्रकारं द्रव्यं निरूप्य गुणं निरूपयति-कर्मान्यत्वे सतीति । सामान्यादिव्यवच्छेदय सामान्याश्रय इत्युक्तम् । आश्रयः समवायी । द्रव्यव्युदासाय एकेति । द्रव्यस्य विशेषं प्रत्यप्याश्रयत्वान्न सामान्यैकाश्रयत्वम् । ताक्कर्मव्यवच्छेदाय कर्मान्यत्वपदम् । सामान्येन सहैक आश्रयो यस्य स सामान्यैकाश्रय इति कुतो न व्युत्पाद्यते ? उच्यते - तथा सति व्यणुकादिद्रव्ये व्यभिचारादेवं व्याख्या । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दाश्चतुर्विंशतिर्गुणाः ।
[वा. टी.] सर्वद्रव्यवृत्तित्वात्सामान्याधारत्वाच्च गुणं निरूपयति- कर्मान्यत्वे सतीति । प्रमेयत्वादिधर्माश्रये सामान्याश्रये व्यभिचारपरिहाराय सामान्येति । कर्मणि व्यभिचारपरिहाराय कर्मेति । कर्मान्यत्वञ्च कर्मत्वानधिकरणत्वम् । तेनोत्क्षेपणादन्यस्मिन् अपक्षेपणे नातिव्याप्तिः । द्रव्येऽतिव्याप्तिपरिहाराय एकेति । न च प्रमेयत्वाद्याश्रयत्वेनासम्भवः, आश्रयत्वेन समवायित्वस्य विवक्षितत्वात् । उत्पन्नमात्रे द्रव्येऽतिव्याप्तिपरिहाराय सदेति द्रष्टव्यम् ।
1
*
(रूपरसगन्धस्पर्शाः)
नयनैकग्राह्यजातिमद्रूपम् । रसनैकग्राह्यजातिमान् रसः । घ्राणैकग्राह्यजातिमान् गन्धः । स्पर्शनैकग्राह्यजातिमान् स्पर्शः ।
1
[ ब. टी. ] नयनेति । सामान्यादावतिव्याप्तिभङ्गाय जातिमदिति । स्पर्शेऽतिव्याप्तिवारणाय नयनेति । घटादावतिव्याप्तिवारणाय एकेति । नयनैकेन्द्रियग्राह्यत्वमात्रग्रहे रूपत्वरूपध्वंसादावतिव्याप्तिः, प्रभायां द्रव्ये वातिव्याप्तिः, नयनैकग्राह्यविनष्टघटादावतिव्याप्तिश्च, अतीन्द्रियरूपेऽव्याप्तिश्चेति दूषणनिरासाय जातीति । प्रभात्वस्य जातित्वपक्षे प्रभान्यत्वे सतीति विशेषणीयम् । यद्वा प्रभा न चाक्षुषीति बोध्यम् । रूपप्रभान्यतरत्वमादाय प्रभायामतिव्याप्तिवारणाय जातीति । रसनेति । अतीन्द्रियरसेऽव्याप्तिवारणाय जातिमानिति । रसनग्राह्यरसवति द्रव्येऽतिव्याप्तिवारणाय जातीत्युक्तम् । धर्मपदपरिहारेण चक्षुर्ग्राह्यरूपत्वादिमत्यतिव्याप्तिवारणाय रसनेति । रसनग्राह्मगुणत्वादिमत्यतिव्याप्तिवारणाय एकेति । जातिपदार्थस्य यावान् भागो न व्यर्थस्तावान् ग्राह्यः ।
[अ. टी.] जातिमतां रसादीनां व्यवच्छेदाय नयनग्राह्येत्युक्तम् । घटादिव्यवच्छेदीय एकपदम् । नयनैकग्राह्यं रूपमित्युक्ते परमाण्वादिरूपेऽव्याप्तिस्स्यादत उक्तम् नयनैकग्राह्यजातिमदिति । एवं रसादिलक्षणेऽपि । रसनग्रासत्ताजातिमद्रव्यादिव्युदासाय एकपदम् । गुणत्वजातिमद्रूपादिव्युदासौंर्थञ्च तत् ।
१ सप्तप्रकारमिति ट. २ व्यवच्छेदार्थमिति ज, ट. ५ इन्द्रियग्राह्येति मु. ६ नयनैकप्राह्येति च. ७ रसनग्राह्ये न व्यर्थत्वाभावान्न प्राह्य इत्यशुद्धः पाठः छ पुस्तके, ११ रूपेष्विति ज, ट. १२ रसनघ्राणेति ज, ट.
प्रमाण ० ६
३ समवायेनेति झ, ट. ४ तादृशेति श. इति च. ८ जातिपदार्थत्वाभावात् भागो ९ व्युदासायेति ज, ट. १० व्यावृत्यर्थमिति ज, द. १३ व्युदासायेति ज, द.