________________
निरूपणम्]
टीकात्रयोपेता श्रोत्राख्यमिन्द्रियं पारिशेष्यात्सिद्धमित्यन्वयः। परिशेषानुग्राह्यमनुमानमाह-शब्दोपलब्धिरिति । शब्दोपलब्धिर्मनस्करणिका सा भवतीति सिद्धसाधनता, तत उक्तम् भृतेति । साक्षात्कारत्वादित्युक्ते आत्मसुखादिसाक्षात्कारे व्यभिचारस्स्यादत उक्तम् । रूपशब्दयोरन्यतरेति । अनयोरन्यतरत्वञ्चासिद्धमिति साक्षात्कारग्रहणम् । शब्दसाक्षात्कारत्वादित्युक्ते न तावदन्वयः । सुखादिसाक्षात्कारे यद्यपि व्यतिरेकोऽस्ति, तथापि केवलव्यतिरेकेऽसन्तुष्टं प्रतीदं द्रष्टव्यम् । इदानी परिशेषमाह-परिशेषस्त्विति । विप्रतिपन्नाः श्रोत्रव्यतिरिक्ताः । सन्तु तर्हि कालादयस्संयुक्तसमवायेन शब्दोपलब्धिहेतवस्तत्राह-न कालादय इति । शरीरकालादीनां ग्राहकत्वमारोप्यायं परिशेषो द्रष्टव्यः । अजानां कालादीनां मिथः संयोगस्य निराकरिष्यमाणत्वात् संयुक्तसमवायोऽत्र न युक्तः । रहस्यन्तु चक्षुरादिव्यापारे सत्यपि बधिरस्य शब्दसाक्षात्काराभावादिन्द्रियान्तरसिद्धौ श्रोत्रसिद्धिरिति । पञ्च संख्यादयः शब्दश्चति षड्गुणाः ।
[वा. टी.] नन्वाकाशस्यैकत्वे सजातीयाकाशाभावात्तस्मिन्नष्ठे पुनरुत्पत्त्यभावाच्छब्दस्यानुत्पत्तिरेव स्यात् । उत्पत्तौ वान्यधर्मतेत्यत आह-आकाशमिति । घटेऽभावे चातिव्याप्तिपरिहाराय विशेषणद्वयम् । भूतत्वे चेन्द्रियारम्भकत्वे प्राप्ते आह—तदेवेन्द्रियं सिद्धमित्यन्तेन । नभसस्समवायिकारणस्यकत्वादेवेन्द्रियलक्षणकार्यद्रव्यस्यारम्भसम्भवादन्यस्य चाभावात्तत्तद्भोगनियतादृष्टविशेषोपनिबद्धकर्णशष्कुल्यवच्छिन्नं नभ एव श्रोत्रदेशमिन्द्रियव्यपदेशं लभत इति परिशेषासिद्धमित्यन्वयः । ननु भूतत्वेऽपि शरीरानपेक्षावदिन्द्रियस्यापेक्षाभावादनारम्भस्य सुवचत्वात्किमिति परिशेषापेक्षा इत्यत आह–इतीति । इति प्रमाणेनेन्द्रियस्यावश्यापेक्षणीयत्वादित्यर्थः । तदेवाहशब्दोपलब्धिरिति । मनसा सिद्धसाधनपरिहाराय भूतेति । सुखसाक्षात्कारेऽतिव्याप्तिपरिहाराय रूपेति । असिद्धिपरिहाराय शब्देति । पुनरपि तां परिहर्तुम् अन्यतरेति । कालादय एव शब्दग्राहका भविष्यन्तीत्याशङ्कय कालादय आकाशसमवेतं शब्दं गृह्णन्तः संयुक्तसमवायेन गृह्णीयुर्घटरूपमिव चक्षुः। न चैतदुपपद्यते, यतः कालाकाशयोरमूर्तत्वेन मूर्तमात्रसमवेतकर्मणोऽसम्भवेन तज्जन्यसंयोगासम्भवान्नित्यसंयोगस्य च निराकृतत्वात् । तथा च प्रयोगः-कालादयो न तद्राहकाः, तदसम्बद्धत्वात् , रूपवदिति मत्वाह-न कालादय इति । शब्दोपलब्धेर्भूतेन्द्रियजन्यत्वसाधनानन्तरं शरीराजन्यत्वनिराकरणं मन्दशङ्कानिरासार्थमिति सन्तोष्टव्यम् । शब्दः संख्यादिपञ्चकञ्च ।
___ (काललक्षणं, तत्र प्रमाणञ्च ) विवक्षितपरत्वासमवाय्याश्रयत्वे सति सर्वगतः कालः। विप्रतिपन्नं मनो विवाक्षतपरत्वासमवाय्याश्रयसंयुक्तं द्रव्यत्वात् , आत्मवदिति तत्र प्रमाणम् ।
१ पदमिदं नास्ति ज, ट. पुस्तकयोः. २ शब्दग्राहकत्वमिति ज. ३ प्रयुक्त इति ट.