________________
प्रमाणमञ्जरी
[द्रव्य (आकाशस्य नित्यत्वम्) आकाशं नित्यम् , असमवेतभावत्वात्, समवायवदिति नित्यत्वं सिद्धम् । तदेवेन्द्रियं श्रोत्रं नाम, शब्दोपलब्धिर्भूतेन्द्रियकरणिका रूपशब्दयोरन्यतरसाक्षात्कारत्वाद्र्पसाक्षात्कारवत् इति पौरिशेष्यात्सिद्धम् । परिशेषस्तु-विप्रतिपन्नाः शरीरावयवा नयनादयश्च तद्राहका न भवन्ति, कार्यत्वाद्धटवदिति । न कालादयस्तद्वाहकाः, अजसंयोगनिराकरणात् । शब्दादिषड्गुणकम् । [ब. टी.] अस्मदादिबाह्येन्द्रियग्राह्यगुणाधारत्वेन प्रसक्तमनित्यत्वं वारयितुं नित्यत्वं साधयति-आकाशमिति । घटादौ व्यभिचारवारणाय असमवेतेति । प्रागभावे व्यभिचारवारणाय भावत्वादिति । न चौकाशत्वमिन्द्रियारम्भकवृत्ति भूतलावृत्तिद्रव्यविभोजकत्वादित्यत आह-तदेवेति । लाघवादेकमेवाकाशं कर्णशष्कुल्यवच्छेदेनेन्द्रियमनुमानत्वप्रयोजकमित्यर्थः । तत्रानुमानं प्रमाणयति-शब्दोपलब्धिरिति । रूपाद्युपलब्धौ सिद्धसाधनवारणाय शब्देति । जन्यशब्दसाक्षात्कार इत्यर्थः । मनसार्थान्त. रवारणाय भूतेति । शरीरादिनार्थान्तरवारणाय इन्द्रियेति । असाधारणकारणत्वेनोद्देश्यसिद्धये कारणेति । रूपसाक्षात्कारत्वादित्येतावन्मात्रोक्तावसिद्धिः। शब्दसाक्षात्कारत्वादित्युक्तौ च साधनवैकल्यम् । साक्षात्कारतामात्रोक्तौ सुखादिसाक्षात्कारे व्यभिचारः। अतो विशिष्टो हेतुः । रूपाद्यनुमितौ व्यभिचारवारणाय साक्षात्कारत्वमुक्तम् । साक्षात्कारस्य पक्षे हेतौ दृष्टान्ते च लौकिकत्वमपि विशेषणम् । ननु शब्दसाक्षात्कारत्वमेव हेतुरस्तु केवलव्यतिरेकीति चेत्-न केवलव्यतिरेकमनङ्गीकुर्वाणं प्रत्येतस्योक्तत्वादिति । न चासिद्धिवारकं विशेषणमिदम् , अखण्डाभावत्वात् । ननु ताँवता तदिन्द्रियमाकाशमेव कथमित्यत आह-पारिशेष्यादिति । परिशेषमाह-विप्रतिपन्ना इति । तद्राहका न भवन्ति शब्दग्राहका न भवन्तीत्यर्थः । रूपादिग्राहकत्वेन बाधवारणाय तदिति । लौकिकप्रत्यासत्या तद्राहकेन्द्रियाणि ने भवन्तीत्यर्थः । अजेति । संयुक्तसमवायेन हि कालादिना सङ्ग्राह्यः, न चाकाशेन तस्य संयोगोऽस्तीत्यर्थः। [अ. टी.] अस्मदादिबाह्येन्द्रियग्राह्यगुणाधारत्वेन घटादिवदाकाशस्यानित्यतामाशयापवदति-आकाशमिति। घटादौ व्यभिचारवारणार्थम् असमवेतपदम् । प्रागभावे तस्य व्यवच्छेदार्थ भावत्वोक्तिः । प्रत्यनुमानबाधितमनुमानमनित्यत्वं न साधयतीत्यर्थः । पृथिव्यादिभूतत्वादाकाशस्येन्द्रियारम्भकत्वं प्राप्तं तव्यावर्तयति-तदेवेति। तत् आकाशमेव
तस्य नित्यत्वमिति क; इत्येवं तस्य नित्यत्वमिति ग, घ. २ परिशेषादिति मु. ३चेति नास्ति मु. ४ न त्विति च. ५ विभाजकोपाधिमत्वादिति च. ६ अपीति नास्ति च पुस्तके. ७ तावदिन्द्रियमिति च. ८ परिशेषादिति छ. ९ चेति छ. १० आकाशस्यापीति ट. ११ प्रागभावस्येति ज. १२ तदिति नास्ति ज, ट. पुस्तकयो.