________________
२२
प्रमाणमारी भावादिति भावः । दूषयति-नेति । तमो यदि ज्ञानाभावः स्यात्तर्हि भावत्वेन प्रतियोगिज्ञाननिरपेक्षेण नीलरूपत्वेन ज्ञानाभावस्य चान्तरत्वादहिष्ट्रेन च या प्रतीतिस्सा न भवेत् । अस्ति च तत्त्वेन प्रतीतिरित्यर्थः।
(तमसोऽद्रव्यत्वनिरूपणम् ) __ अंत एव नालोकाभावस्तमः । आलोकाभावस्तम इति वदतोऽपि मते आरोपितनीलरूपप्रतीतेस्सत्त्वान्नाश्रयासिद्धिः। न द्रव्यं तमः, असत्येवालोके चक्षुषा प्रतीयमानत्वात् , आलोकाभाववदिति प्रमाणोपपत्तेः। कृष्णरूपं तमो द्रव्यमिति वदतो मते रूपप्रतीतेः सत्वान्नाश्रयासिद्धिः। तदतिरिक्तो भौमादिः विषयः । रूपायेकादशगुणवत् । [ब. टी.] अत एवेति । भौवत्वादिसाधकयुक्तेरेवेत्यर्थः । अभावत्ववादिमतेऽप्याश्रयासिद्धिं परिहरति-आलोकाभावस्तम इति । नन्वेवं भट्टमताङ्गीकारेण कणभुमतावलम्बिनोऽप्यपसिद्धान्त इत्यत आह-तमो न द्रव्यमिति । घटादौ व्यभिचारवारणाय असत्येवालोक इति । पुनरप्यालोकनिरपेक्षत्वग्जन्यग्रहविषये घटादौ व्यभिचारवारणाय चक्षुषेति । अस्मदादिचक्षुषेत्यर्थः । तेनालोकनिरपेक्षमार्जारादिचक्षुर्लाह्यत्वेऽपि न व्यभिचारः। यद्वा मार्जादिगोलकसम्बद्धसामर्थ्यवशात् तदेकचक्षुर्मात्रसहकारि तेजोऽस्त्येवेति बोध्यम् । यत्राप्यौषधादिलेपं कृत्वा तस्करा वस्तु पश्यन्ति, तत्राप्यौषधलेपेन तेजोऽन्तराकर्षणमेवेति पर्यालोचनीयम् । द्रव्यत्ववादिमते सुतरां नाश्रयासिद्धिरित्युक्तमेवेत्याह-इति वदत इति ।।
[अ. टी.] बहलोऽन्धकारो विरलोऽन्धकार इति तारतम्यप्रतीतेश्वाभावप्रतीतेश्च तद्वैलक्षण्यं प्रसिद्धम् । ततो नालोकग्रहणाभावस्तमः, किन्तु घटादिवद्भावरूपमेव, तापसिद्धान्त इत्यत आह-आलोकाभाव इति । आलोकाभावस्तम इति मते न तावदालोकाज्ञानं तम इति विशेषः । तर्हि कथं रूपसाक्षात्कारलक्षणधर्मिलाभ इत्यत आह-आरोपितेति । आलोकाभावे स्मर्यमाणं नीलरूपारोपस्वीकाराद्रूपप्रतीतिर्धर्मिलाभो विधिमुखप्रतीत्यायुपपत्तिश्च । सिद्धे ह्यभावत्वे तमस आलोकाभावत्वं वाच्यम् । "तदेव कुत इत्यत आह-असत्येवेति । तमो न भावरूपमालोकनिरपेक्षचक्षुाह्यत्वात्, यथालोकाभाव इत्यनुमानम् । तमो न द्रव्यमिति पाठे स्पष्टमद्रव्यत्वेनाभावत्वम् । ततो न स्वमत आश्रयासिद्धिः । परमते तु तदभाव उक्त एवेत्याह-कृष्णरूपमिति । भौमं तेजो वन्हिः । आदिशब्दादाकरजादि । पूर्वोक्तचतुर्दशगुणमध्ये स्नेहरसँगुरुत्ववर्जमेकादश गुणाः ।
१ भालोकाभावस्तमः । आलोकाभावस्तमो न द्रव्यमिति वदत इति मु. २ नीलेति नास्ति क. ख. ग. घ. पुस्तकेषु. ३ न तमो द्रव्यमिति मु. ४ भावत्वसाधकेति च. ५ तमसो भावरूपताङ्गीकारेणेति च. ६ अपीति नास्ति च पुस्तके. ७ बहुल इति ट. ८ पदमिदं नास्ति ट, पुस्तके. ९ मतेऽपीति ज.ट. १० इति शेष इति ज. द. ११ तदेतदिति द. १२ द्रवत्वेति झ.