________________
निरूपणम्]
टीकाप्रयोपेता भावत्वभ्रमगोचरेऽभावे व्यभिचारी, भावत्वप्रकारकप्रमाविषयत्वमन्यतरासिद्धम् , भौवत्वप्रकारकाप्रमाविषयत्वे विरुद्धमत आह-खातलयेणेति । ननु स्वातव्यं किम् ? प्रतियोग्यनपेक्षनिरूपणत्वश्चेत्तद्यसिद्धिः । विशेषणत्वेनाप्रतीयमानत्वं यदि, तदाप्यसिद्धिः। अन्धकारवद्भूतलमिति प्रतीतौ तस्य विशेषणत्वात् । भूतले घटाभाव इति प्रतीतिविषयेऽभावे व्यभिचारश्च । एवं स्वातत्र्यं विशेष्यत्वमित्यपि परास्तम् । न च स्वातत्र्यमन्याविषयकप्रतीतिविषयकत्वम् , अन्यविषयकप्रतीत्यविषयकत्वं वा, सिद्धेः। अन्धकारा. दीनामप्यन्धकारत्वगोचरप्रतीतिविषयत्वात् । न चासमवेतत्वं विशेष्यत्वम्, भावत्ववादिनो नयेऽसिद्धेरित्यत आह-कृष्णाकारेणेति । नीलत्वेन प्रतीयमानत्वादित्यर्थः । तथाच तमो नाभावः, भावो वा द्रव्यं वा, नीलत्वात् नीलपटवदिति प्रयोगार्थः। आलोकज्ञानाभावश्चान्तरः, बाह्यपदार्थरूपतया प्रतीतिर्न स्यात् । अस्ति च तत्प्रतीतिरित्याहबहीरूपवत्तयेति। [अ. टी.] नयनाख्यं तैजसमिन्द्रियम् । तत्र प्रमाणम् आलोकेत्यादि । सौराद्यालोकाभावेऽपि" दीपाद्यालोकजन्यो रूपसाक्षात्कारस्सिद्धोऽस्तीत्यत उक्तम्-अत्यन्ताभावेति । स्पर्शादिसाक्षात्कारे व्यभिचारवारणाय रूपपदम् । कुत्रत्यं रूपपदं साक्षाद्भवतीति तत्राहतद्गोलकस्थमिति । अतिसामीप्यान्नयनरूपोपलब्धिर्न युक्ता । अथ नीलं रूपं तमोगतमुपलभ्यते । मैवम् ; तस्य भावत्वासम्प्रतिपत्तेः । तदाह-आलोकाज्ञानमिति । अथवा तस्य नेत्रेन्द्रियस्यालोकवद्गोलकादन्यत्र वृत्तिं प्रतिषेधति-तद्गोलकस्थमिति । अनुमानमाक्षिपति-आलोकाज्ञानमिति । पक्षीकृतरूपसाक्षात्कारस्यासिद्धत्वादाश्रयासिद्धिः । तम प्रतीतेरभाँवप्रतीतेवैलक्षण्यान्नाभावत्वं तमस इत्याह-न विधिमुखेनेति । तमो ध्वान्तमित्यत्र नझुल्लेखाभावाद्धटाभाव इत्यादिवत्प्रतियोगिपारतत्र्याभावाच्च । नीलं तम इति कृष्णाकारप्रतीतेनीलँघटादिप्रतीतिवत्तस्योबहिर्मुखत्वाच्च ।
[वा. टी.] आलोकेति । अपवरकान्तर्वालोकाभावे रूपग्रहणस्य सौराद्यालोककारणत्वेन सिद्धसाधनतापरिहाराय अत्यन्तेति । सर्वालोकाभाव इत्यर्थः । आलोकात्यन्ताभाव इति विषयसप्तमी स्पर्शादिसाक्षात्कारनिराकरणाय रूपेति । युक्तयोगिपरमाणुसाक्षात्कारनिराकरणाय अस्मत्पदं द्रष्टव्यम् । किं निष्ठं तर्हि तत्तेज इत्यत आह-तदिति । नयनोन्मीलनेति । नयनसम्बन्धिपक्ष्मोत्क्षेप इति यावत् । उपलब्धेः रूपादिप्रकाशादित्यर्थः । अत्र कश्चिदाक्षिपति-आलोकाज्ञानमिति । आलोकज्ञानाभाव इत्यर्थः । आश्रयासिद्धिरिति । पक्षीकृतरूपसाक्षात्कारस्य तत्रा
१ प्रकारकभ्रमेति च, २ इत आरभ्य विरुद्धमित्यन्तं नास्ति छ. ३ इह भूतल इति च. ४ स्वसिदेरिति छ. ५ न च समवेतत्वे सतीति च. ६ अभावत्वेति च. ७ इत्यर्थ इत्यधिकं च. ८ पटवदिति च. ९पदार्थतयेति च. १० तत्प्रतीतिरिति च. ११ तत्र चेति ज. ट. १२ अपीति नास्ति झ. १३ निषेथतीति ज. ट. १४ पक्षीकृतस्येति ज, पक्षीभूतस्येति ट. १५ इति चेन्नेत्यधिकं ट. १६ प्रतीतिवैलक्षण्यादिति ज, पदमिदं नास्ति ट. १७ कृष्णाकारेति नास्ति झ. १८ पटादीति ज. ट. १९ तस्य बहिरिति झ.