________________
सम्पादकीय किशित् परिपूरयामि । नेकविधानां पुरातत्त्वावशेषाणामाकरे राजस्थानमहाराज्ये तत्र तत्र निलीनानों संख्यातीतानां ग्रन्थरत्नानां परिष्करणं प्रकाशनश्च येषां समुद्बोधनेन यै राज्यमन्त्रि-सचिवप्रभृतिभिर्यदारब्धं तेभ्यस्सर्वथायमधमर्णसंस्कृतसमाजः । एवमेव ते तानि तानि ग्रन्थरत्नानि परिष्कृत्य सर्वत्र विसृमराभिस्तत्प्रभाभिः भगवती भारती भारतभुवञ्च सर्वां समुद्दीपयेयुरित्याशासे ।
अस्य च ग्रन्थस्यादर्शपुस्तकैरतिजटिलाक्षरैस्सह संवादनादिकार्येषु खनियमानुल्लङ्घयापि नितान्तमुपकृतवते जैनन्यायसाहित्याचार्याय उपाध्यायपदविभूषिताय श्रीविनयसागरमुनिमहोदयाय हार्दिकान् धन्यवादान् वितरामि । एवं संशोधनपाण्डुलिपिसम्पादनादिकार्ये मदन्तेवासिना मीमांसाचार्येण साहित्यरत्नेन च श्रीमदनलालशर्मणा मण्डनमिश्रापरनामधेयेन जयपुरमहाराजसंस्कृतकॉलेजाध्यापकेन चिरायुषा सुबहु परिश्रान्तमुपकृतश्चेति तमाशीर्वचोभिः पूरयामि ।
अस्य ग्रन्थस्य शोभा परिवर्द्धयितुं साधुपाठानामभावेन जवितं क्लेशश्च दूरीका बहुमूल्यान्यादर्शपुस्तकानि सदयं प्रेषितवन्यो हैयङ्गवीनहृदयेभ्यः पुण्यपत्तनस्थ भाण्डारकरपुस्तकागारमत्रि(सेक्रेटरी) महोदयेभ्यश्शतशो धन्यवादान् संवितीर्यान्ते सर्वानेव विपश्चिदपश्चिमान् सम्प्रार्थयेयत्सावधानेन मनसा शोधितेऽप्यस्मिन् ग्रन्थे मनुष्यमात्रसुलभा अशुद्धयोऽवश्यं भवेयुः, ता अपरिगणय्य यदि कश्चन गुणलवस्स्यात्चर्हि तद्ब्रहणेन मामनुगृहीयुरिति ।
कलिकाता. १२-१२-१९५२
विद्वज्जनवशंवदः पट्टाभिरामशास्त्री विद्यासागरः