________________
श्चत्
‘काणादं पाणिनीयञ्च सर्वंशात्रोपकारकम्' इत्यभियुक्तोक्त्या काणादनयस्य सर्वशास्त्रोपकारकत्वे न कस्यापि विप्रतिपत्तिः । तत्र सूत्राणां प्रशस्तपादभाष्यस्यान्येषाश्चोदयनप्रभृतिभिर्विद्वत्तल्लजैर्विरचितानां ग्रन्थानां दुरधिगमत्वात्तार्किकचक्रचूडामणिः श्रीसर्वदेवः दुरूहविषयानोकहसङ्कुलेऽस्मिन् काणादकान्तारे सुखेन बालानां प्रवेशसिद्धयेऽतिसरल्या शैल्या ग्रन्थमिमं प्रणिनाय । अयञ्च सर्वदेवः ईसवीयचतुर्दशशताब्द्यामासीदिति विमर्श कैरनुमीयते । अस्मिन् ग्रन्थे कणादाभिमतानां सर्वेषां पदार्थानां लक्षणं विभागञ्च सविशेषं निरूपयन् सर्वदेवः शास्त्रे विद्यमानं काठिन्यं दूरीचकारेति न वक्तव्यं मया । ग्रन्थस्यास्य टीकासु विलोक्यमानासु स्पष्टमिदं प्रतीयते - यदत्रैकमप्यक्षरं न वृथा प्रयुक्तं सर्वदेवेनेति ।
अस्य ग्रन्थस्य तिस्रष्टीकास्सन्ति । ताः क्रमेण तार्किकशिरोमणिभिः श्रीमदद्वयारण्य - बलभद्र-वामनभट्टैर्विरचिताः । इमाश्च टीकाः अल्पीयस्यप्यस्मिन् ग्रन्थे विद्यमानं प्रौढिमानमवद्योतयन्ति । तिसृष्वपि टीकासु मूले प्रयुक्तानां पदानां प्रयोजनविचारो विदुषां मनांसि रञ्जयेदित्यत्र न कोऽपि संशयः । व्याख्यासहितस्यास्याध्ययनेनाध्यापनेन वा न केवलमध्येतॄणां किन्त्वध्यापकानामपि पदार्थविवेचनशैली परिवर्द्धत इत्यत्र किमु वक्तव्यम् । इदमेवैकं तादृशं शास्त्रम्, यच्च साकं पदार्थज्ञानेन पदार्थ विवेचनचातुरीमपि जनयति । यश्च युक्तया तत्त्वं परिशीलयति स एव परमार्थतस्तत्वमवगच्छतीति न मया वक्तव्यम् । 'न हि प्रतिज्ञामात्रेण वस्तुसिद्धि:' इति प्राचीनानां यौक्तिकशास्त्रनिर्माणे इयान् प्रयासः । पदार्थतत्त्वस्य सत्यपि शब्दसमधिगम्यत्वे युक्तया तर्केण वा तत्समधिगन्तुं लोकानां दृश्यते खारसिकी प्रवृत्तिः । अत इदं यौक्तिकं शास्त्र प्रवर्तितं प्राचीनैः । अमुमेवार्थं
यति “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यत्र ' मन्तव्य' पदं प्रयुञ्जाना भगवती श्रुतिरपि । एवमस्मिन् महाफले शास्त्र बालानां सुखेन प्रवेशसिद्धये श्रीसर्वदेवेन लेखनी व्यापारिता । अल्पकायस्यास्य ग्रन्थस्य महत्त्वं संवीक्ष्य तस्य कलेवरं परिवर्द्धयितुं श्रीमदद्वयारण्यप्रभृतयस्ता र्किकशिरोमणयो हृदयङ्गमाष्टीका अररचन्निति धन्योऽयं संस्कृतसमाजः, विशेषतश्च तार्किकसमाजः ।
टीकाकर्तॄणां पौर्वापर्ये समये च विमृश्यमाने ममेदं प्रतिभाति - यद्बलभद्रमिश्रः 'केचित् ' 'अत्र केचित् ' ' इति केचन' इत्येवं तत्र तत्र मतान्यनूद्य खण्डयति । इमानि च मतानि अद्वयारण्य - वामनभट्टटीकयोस्समुपलभ्यन्ते । अतो बलभद्रस्तृतीयकोटौ निवेष्टुमर्हति । वामनभट्टस्तु प्रायोsaयारण्यटीकामेवानुवर्तते । इयांस्तु विशेषः - अद्वयारण्यटीका विस्तृता, वामनभट्टस्य तु तस्या एव सङ्क्षेपरूपा टीकेति । तत्रापि वामनभट्टः - ' शाके बाणगजत्रिचन्द्रगणिते वर्षे ( १३८५) सुभानौ शुभे' इति समयं ग्रन्थस्यान्ते निर्दिशन् खस्य ईसवीयपञ्चदशशताब्दीमध्यवर्तित्वं कथयति । एवञ्चाद्वयारण्यः प्रथमः, वामनभट्टो द्वितीयः, बलभद्रस्तु तृतीयः, सिध्यतीत्येतदेवात्र वक्तुं पार्यते, विशेषतस्तु निर्णये विमर्शका एव प्रमाणमिति ।
अत्युत्तमस्यास्य ग्रन्थस्य प्रकाशन मत्यावश्यकमिति मन्वाना राजस्थानीयपुरातत्त्व मन्दिरसंप्रतिष्ठापकास्तत्सञ्चालनकर्मण्यहोरात्रं निरताः प्राचीनग्रन्थप्रकाशने तदम्वेषणे च सुलब्धप्रतिष्ठाः श्रीमुनि - जिनविजयमहोदया मामस्मिन् शोभने कर्मणि न्ययूयुञ्जन् इति तानहं कोटिशो धन्यवादपरम्पराभिः