________________
९०
कर्म
प्रमाणमञ्जरी ष्ठात्यन्ताभावप्रतियोगित्वेन शब्दत्वान्यूनवृत्तित्वाभावात् । यद्वा गुणत्वव्याप्यजात्यव्याप्यशब्दवृत्तिजातित्वस्य हेतुत्वात् । सत्तासंयोगासमवायिकारणके घटादावस्तीति दृष्टान्तसिद्धिः । द्वितीयसाध्येऽर्थान्तरवारणाय विभागेति । विभागस्यासमवायिकारणत्वसिद्धये असमवायीति द्वितीयहेतुः । पूर्ववद्विवक्षणीयविभागजविभागवृत्तित्वेन दृष्टान्तसिद्धिः । गुणत्वावान्तरेति । शब्दस्य गुणत्वजात्या सजातीयस्संयोगादिः। तजन्यवृत्तित्वेनार्थान्तरवारणार्थ गुणत्वावान्तरेति। शब्दसंयोगान्यतरत्वेन सजातीयसंयोगजन्यवृत्तित्वेनार्थान्तरं वारयितुं जात्या साजात्यमुक्तम् । हेतुः पूर्ववत् । रूपादिजन्यवृत्तित्वेन दृष्टान्तसङ्गतिः।
इति प्रमाणमञ्जरीव्याख्याने गुणपदार्थस्समाप्तः । [अ. टी.] संयोगजो विभागजश्शब्दजश्चेति त्रिविधः शब्दः। संयोगोऽसमवायिकारणं यस्येति विग्रहः । रूपादौ व्यभिचारवारणाय शब्दजातित्वादित्युक्तम् । सत्तायाः सजातीयद्रव्यारभ्यवृत्तित्वेन सिद्धसाधनताव्युदासार्थम् अवान्तरजात्येत्युक्तम् । गुणत्वजात्या सजातीयसंयोगारभ्यवृत्तित्वेन सिद्धसाधनताव्युदासाथ गुणत्वावान्तरजात्येत्युक्तम् ।
इति प्रमाणमञ्जरीटिप्पणेऽद्वयारण्ययोगिविरचिते गुणपदार्थः ।
(कर्मणो लक्षणं तस्य प्रत्यक्षत्वञ्च ) एकद्रव्यविभागासमवायिकारणंसजातीयं कर्म । तत् प्रत्यक्षं, प्रमेयत्वात् , घटवदिति तस्य प्रत्यक्षत्वम् । घटकर्म, अस्मदादिप्रत्यक्षं, गुणान्यत्वे सति घटसमवेतत्वात् , सत्तावदित्यस्मदादिप्रत्यक्षम् ।
[ब. टी.] एकेति। अव्यासज्यवृत्तिविभागासमवायिकारणवृत्यपरसामान्यवत्कर्मेत्यर्थः । विभागासमवायिकारणे विभागेऽतिव्याप्तिवारणाय एकद्रव्येति । रूपादावतिव्याप्ति वारयितुं विभागेति । द्रव्येऽतिव्याप्तिभङ्गाय असमवायीति । सत्तामादाय तद्दोषं वारयितुम् अपरेति । विभागघटान्यतरत्वादिकमादाय दोषं वारयितुं सामान्येति । न च गुणत्वमादाय रूपादावतिव्याप्तिः, गुणत्वेतरजातेरुक्तत्वात् । यद्वा विभागासमवायिकारणतावच्छेदकजातिमदित्यर्थः । न चाविनश्यदवस्थकर्मत्वमसमवायिकारणतावच्छेदकम् , तच न सामान्यमित्यसम्भव इति वाच्यम्, किश्चिद्विशेषणवद्भिन्नजातेरेवात्रोपाधित्वात् । अन्यतरस्वादिकन्तु नावच्छेदकं, गौरवात् अतिप्रसङ्गाच । वस्तुतस्तु
. १ वृत्तित्वस्येति च. २ घटादावपीति च. ३ पदमिदं नास्ति च पुस्तके. ५ रूपादिवृत्तित्वेनेति च. ५ रूपत्वादाविति ज, ट. ६ वारणार्थमिति ज, ट. ७ सत्तयेति ज, ट. ८ निरासार्थमिति ज, ट. ९ टिप्पणके इति ट. १० कारणजातीयमिति ख. ११ गुरुत्वान्यत्व इति ख, ग, घ. १२ प्रत्यक्षत्वमिति मु. १३ वृत्तिसत्तासाक्षाब्याप्यापरेति च.१४ वारणायेति च.