________________
निरूपणम् ]
टीकात्रयोपेता
प्रतिबन्धकदोषसद्भावाद्वा । ततः किमत आह अनैकान्तिकेति । द्वितीये भवत्पक्षभङ्गः । उभयस्याप्यभाव इत्याह अनुमितेति । अनुमितं कृतं यच्छन्दनित्यत्वानुमानं तस्योच्छेदः । विपक्षे परमाणुश्यामवतो हेतोस्सत्वात्तदननुभवाच्च । नन्वेवमनैकान्तिकोच्छेदलक्षणं दूषणं तवापि सममत आ विपक्ष इति । यदिदमनैकान्तिकोच्छेदलक्षणं दूषणं तद्धेतोरननुभूयमानत्वे विशेषणे सत्यूह्यम् । तत्रैतत्तु विपक्षे, नास्मत्पक्षे । विपक्षे हेत्वभावस्यैव व्यतिरेकस्योररीकरणादिति भावः । उपसंहरति तस्मादिति । हेतुरेवेति । सद्धेतुरिति यावत्, न तु सत्प्रतिपक्षो हेत्वाभास इत्यर्थः । साक्षादिन्द्रियसम्बन्धेन प्रतीयमानत्वादित्यनेन सिद्धेर्निरवयवेन्द्रियग्राह्यत्वविशेषणं व्यर्थमिति भावः । रूपनिवृत्यर्थं साक्षादिति ।
इति श्रीप्रमाणमञ्जरीटीकायां गुणपदार्थः ।
*
( शब्दविभागः )
स त्रिविध:- संयोगजादिभेदत् । शब्दत्वं संयोगासमवायिकारणवृत्ति, शब्दजातित्वात्, सत्तावदिति संयोगजशब्दसिद्धिः । शब्दत्वं विभागासमवायिकारणवृत्ति, शब्दजातित्वात्, सत्तावदिति विभागजशब्दसिद्धिः । शब्दत्वं गुणत्वावान्तरजात्या सजातीयारभ्यवृत्ति, शब्दजातित्वात्, सत्तावदिति शब्दजशब्दसिद्धिः ।
इति तार्किकचक्रचूडामणि सर्वदेवसूरिविरचितायां प्रमाणमञ्जर्यां गुणपदार्थः समाप्तः ।
[ब. टी. ] स इति । शब्द इत्यर्थः । आदिपदेन शब्दजविभागजपरिग्रहः । शब्दत्वमिति । संयोगासमवायिकारणं यत्र तत्र वर्तत इत्यर्थः । शब्दजशब्दादिना - र्थान्तरं वारयितुं संयोगेति । विभागजादिशब्देऽपि वाद्यादिसंयोगे निमित्तकारणं भवत्येवेति । उद्देश्यासिद्धितादवस्थ्यनिरासाय असमवायीति । आत्मत्वादौ व्यभिचारवारणाय शब्देति । शब्दवृत्यन्यतरत्वादौ व्यभिचारवारणाय जातित्वादिति । विभागजन्यतावच्छेदकजात्यादौ व्यभिचारवारणाय सकलशब्दवृत्तिजातित्वादिति बोध्यम् । न च शब्दपदस्यासिद्धिवारकत्वेन व्यर्थत्वम्, सर्कलपदस्य बुद्धिस्था शेषं परत्वेन सकलात्मवृत्त्यात्मत्वादौ व्यभिचारवारणाय शब्दपदस्योपात्तत्वात् । तेन शब्दत्वान्यूनवृत्तिजातित्वादित्यर्थः । तेन सकलविभागजशब्दवृत्तिजातौ न व्यभिचारः । न च जातिपदं व्यर्थम् । तस्याविवक्षितार्थकत्वात् । ( न च ) शब्दस्नेहान्यतरत्वेन व्यभिचारः, तस्य पक्षसमत्वात् । न च विभागजशब्द स्नेहान्यतरत्वे व्यभिचारः, तस्यापि किञ्चिच्छन्दनि
१ भेदेनेति क. २ शब्दसंयोगेति ख. ३ इति प्रमाणमञ्जर्यं गुणपदार्थ इति क, ख; इति गुणपदार्थ इति ग, घ ४ वारणायेति च ५ निराकरणायेति च ६ शब्दस्येति च ७ विशेषत्यधिकं छ पुस्तके.
प्रमाण० १२