________________
विद्याण्टीका श्लो० ३६-३७]
अनेन दुःखत्रयेणाभिहतस्य प्राणिनस्तत्त्वजिज्ञासोत्पद्यतेऽतस्वान्येव तत्त्वान्याह
एतेषां या समावस्था, सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां, वाच्या नित्यस्वरूपिका॥३६॥
व्याख्या-' एतेषां ' सांख्यानां प्रकतिः प्रीत्यपीतिविषादात्सकानां लाघवोपष्टम्भगौरवधर्माणां परस्परोपकारिणां सत्त्वरजस्तमसां त्रयाणामपि गुणानां या समावस्था समतयावस्थितिः सा किल प्रकृतिरुच्यते, किलेत्याप्तप्रवादे, सा प्रकृतिः कथ्यते । अन्यञ्च सा प्रधानाव्यक्तशब्दाभ्यां वाच्या प्रधानशब्देनाव्यक्तसन्देन च प्रकृतिराख्यायते शास्त्रे, प्रकृतिः प्रधानमव्यक्तं चेति पर्यायान्तरमित्यर्थः। तथा नित्यस्वरूपिका शाश्वतमावतया प्रसिद्धत्वर्थः । उच्यते च नित्या नानापुरुषाभया च तदर्शने प्रकृतियंदाह"४५ तस्मान्न बध्यते नापि मुच्यते, नापि संसरति कश्चित्।
संसरति बध्यते मुच्यते च, नानाश्रया प्रकृतिः ॥" (२०) इति ॥३६ ।।
५°दर्शनस्वरूपमाहततः संजायते बुद्धि-महानिति यकोच्यते । अहङ्कारस्ततोऽपिस्यात् , तस्मात् षोडशको गणः॥३७॥ ४८ अयं श्लोकोऽनेनैव क्रमेण मुद्रितो गुणरत्नीयवृत्त्यादर्शऽपि विलोक्यते । ४९. सां का ६२ इति स्याद्वादमजों पृ. १२० । (पूना )
५०. "प्रकृत्यात्मसंयोगात्सृष्टिर्जायते, अतः सृष्टिक्रममेवाहे "त्यवतरणिका वृहदवृत्ता। (पृ. ४११)