________________
[ षड्दर्शनस० गुणेन तोषः, स चानन्दपर्याय:, "वल्लिङ्गानि स्फूर्त्यादीनि रजोगुणेनाभिव्यज्यन्त इत्यर्थः, तमोगुणेन च दैन्यं जन्यते, ' हा देव । नष्टोऽस्मि वश्चितोऽस्मी'त्यादि वदनविच्छायतानेत्रसंकोचादिव्य
थं दैन्यं तमोगुणलिङ्गमिति" । दैन्यादीत्यादिशब्देन दुःखत्रयमाक्षिप्यते, तद्यथा-आध्यात्मिकं, आधिदैवतं, आधिभौतिकं चेति । तत्राध्यात्मिकं दुःखं द्विविधं-शारीरं, मानसं च । शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तं, मानसं कामक्रोघलोभमोहेाविषयादर्शननिबन्धनम् । सर्व चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वधा-आधिभौतिक, आधिदैवकं चेति । वत्राधिमौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरनिर्मितम् , आधिदैवकं यक्षराक्षसग्रहाचावेशहेतुकमिति ॥ ३५ ॥
१७. बृहद्वृत्तौ तु-"तापशोषभेदचलचित्ततास्तम्भोद्वेगाः कार्य रजसो लिम्" इत्यालिखितम्। (पृ. ३९।२) ४८. "सत्त्वादिभिश्च परस्परोपकारिभिखिभिरपि गुणैः सर्वं जगद्व्याप्तं विद्यते परमूर्ध्वलोके प्रायो देवेषु सत्त्वस्य बहुलता, अधोलोके तिर्यक्षु नारकेषु च तमोबहुलता, नरेषु रजोबहुलता, यद्दुःखप्राया मनुष्या भवन्ति, यदुक्तम्-" ऊवं सत्त्वविशालस्तमोविशालच मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ( साङ्ख्यकारिका ५४) अत्र 'ब्रह्मांदिस्तम्बपर्यन्त' इति ब्रह्मादिपिशाचान्तोऽष्टविधः सर्ग," इति द्रष्टव्यं बृहवृत्तितः । (पृ. ३९।२ )
१. °धमोहे जं. पु.।