________________
५४
[ षड्दर्शनस यदि बया'धुक्तं सामान्यमैन्द्रियकं नित्यं तद्धि सर्वगतमसर्वगतस्तु शब्द इति सोऽयमनित्यः शब्द ' इति पूर्व प्रतिज्ञातः प्रतिज्ञान्तर'मसर्वगतः शब्द' इति प्रतिज्ञान्तरेण निगृहीतो भवति २ । - मतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधो' नाम निग्रहस्थानं भवति, यथा-गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति, सोऽयं प्रतिज्ञाहेत्वोविरोधो, यदि गुणव्यतिरिक्तं द्रव्यं कथं रूपादिभ्योान्तरस्यानुपलब्धिः? अथ रूपादिभ्योान्तरस्यानुपलब्धिः कथं गुणव्यतिरिक्तं द्रव्यमिति ? उदयं प्रतिज्ञाविरुद्धामिधानात् पराजीयते ३। . पक्षसाधने परेण दूषिते तदुद्धरणाशक्त्या प्रतिज्ञामेव निनुवानस्य ' प्रतिज्ञासन्न्यासो' नाम निग्रहस्थानं भवति, यथाऽनित्या शब्द ऐन्द्रियकत्वादि'त्युक्ते तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात्-'क एवमाहानित्यः शब्द' इति प्रतिज्ञासन्न्यासात् पराजितो भवतीति ४ । ___अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो 'हेत्वन्तरं' नाम निग्रहस्थानं भवति, तस्मिन्नेव प्रयोगेतथैव सामान्यस्य व्यभिचारेण दूषिते 'जातिमत्त्वे सती'त्यादिविशेष(ण)मुपाददानो हेत्वन्तरेण निगृहीतो भवति ५।
१. 'रोधे प्र ध।