________________
3
विद्या टीका श्लो० ३१ ]
हेत्वाभासा असिद्धाद्या - छलं कूपो नवोदकः । जातयो दूषणाभासाः, पक्षादिर्दूष्यते न यैः ॥ ३१ ॥
33
व्याख्या - हेत्वाभासा ज्ञेया इति, के ते ? इत्याह-' असि - द्वाद्याः, ' असिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरणसमाः
,
पश्च हेत्वाभासा ज्ञेयाः । तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः १, विपक्षे सन् सपक्षे चासन् विरुद्धः २, पक्षत्रयवृत्तिरनैकान्तिकः ३, प्रत्यक्षानुमानागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः ४, विशेषाग्रहणं हेतुत्वेन प्रयुज्यमानं प्रकरणसमः ५ | उदाहरणानि स्वयमभ्यूद्यानि । ' छलं कूपो नवोदकः ' इति, परोपन्यस्तवादे स्वाभिमतार्थान्तरकल्पनया वचनविघातश्छलम्, कथमित्याह - वादिनां कूपो नवोदक' इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे कृते छलवादी नव सङख्यामारोप्य दूषयति 'कुत एक एव कूपो नवसङ्ख्योदकः ?' इति वाक्छलम् । प्रस्तावगतत्वेन शेषछलद्वयमप्याह-सम्भावनयातिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यछलं, यथा- ' अहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न ' इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति सम्भवति
""
३३. अत्र गौतमसूत्रम् - " सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालात।ता हेत्वाभासाः । ( १ - २ - ४ ) इति प्रमाणमीमांसाप्रस्तावना १. त एतत्कूपो ध. ।
पृ ४. पुना ।