________________
विद्या० टीका ग्लो २३] त्ययः, यथोजयिन्याः प्रस्थितो देवदत्तो माहिष्मतीपुरि प्राप्ता, 'सूर्येऽपि सा तथे'ति-यथा पुंसि तथा सूर्येऽपि सा गतिरभ्युपगम्यते । यद्यपि गगने सञ्चरतः सूर्यस्य नेत्रावलोकप्रसराभावेन गतिर्नोपलभ्यते तथाप्युदयाचलात् सायमस्ताचलचूलिकावलम्बन.(न) गति सूचयति । एवं सामान्यतो दृष्टं नानुमान ज्ञेयमित्यर्थः।।२२॥
अथ क्रमायातमपि शब्दप्रमाणं स्वल्पवक्तव्यत्वादुपेक्षा(क्ष्या)दावुपमानलक्षणमाहप्रसिद्धधर्मसाधा -दप्रसिद्धस्य साधनम् । उपमानं तदाख्यातं, यथा गौर्गवयस्तथा ॥ २३ ॥
२५. अनेन सूर्यस्य गतिममन्वाना अद्यतनीयाः पाश्चात्यभौगोलिकास्तदनुसारिणः पौर्वात्या अपि निराकृता वेदितव्याः । अत्र तर्करहस्यदीपिकावृत्तिः-"अत्र देशान्तरप्राप्तिशब्देन देशान्तरदर्शनं ज्ञेयम्, अन्यथा देशान्तरप्राप्तेर्गतिकार्यत्वेन शेषवतोऽनुमानादस्य भेदो न स्यात् । यद्यपि गगने सञ्चरतः सूर्यस्य नेत्रावलोकप्रसराभावेन गतिर्नोपलभ्यते तथाप्युदयाचलाकालान्तरेऽस्ताचलचूलिकादौ तदर्शनं गतिं गमयति । अथवा देशान्तरप्राप्तेतिकार्यत्वं लोको न प्रत्येतोतीदमुदाहरणं कार्यकारणभावाविवक्षया चोपन्यस्तम् । प्रयोगस्त्वेवम्-सूर्यत्य देशान्तरप्राप्तिर्गतिर्विका देशान्तरप्राप्तित्यादेवदत्तदेशान्तरप्राप्तिवत् ।” (पृ. २८) .
१. पेक्ष्योपमा ध. । २. द्धवस्तुसाध ध. । ३. नं समाख्यातं'.