________________
-
_ षड्दर्शनस० व्याख्या-पूर्ववत् शेषवत् सामान्यतो दृष्टं चेत्यनुमानत्रयम् । 'चः' समुच्चये, 'एव' इति पूरणार्थे, 'तथा' इति उपमदर्शने। 'तत्र' त्रिषु मध्ये आघमनुमानम् ' इह ' शास्त्रे'कारणात कार्यमुदितं ' कारणाद् मेघात् कार्य दृष्टिलक्षणं यतो ज्ञायते तत् कारजकार्य नामानुमानं कथितमित्यर्थः ॥१९॥
निदर्शनेन तमेवार्थ दृढयन्नाहयथा-रोलम्बगवलव्याल-तमालमलिनत्विषः ।
वृष्टिं व्यभिचरन्तीह, नैवम्प्रायाः पयोमुचः ॥२०॥ - व्याख्या-'यथा' इति दृष्टान्तकथनारम्भे 'रोलम्बाः'भ्रमराः, 'गवलं' माहिषं शृङ्गम्, 'व्यालाः' गजाः सर्पा वा, 'तमाला' वृक्षविशेषाः सर्वेऽप्यमी कृष्णपदार्थाः स्वभावतो ज्ञेयाः, द्वन्द्वः समासो बहुव्रीहिश्च । 'एवम्यायाः' एवंविधाः पयोमुच्च' मेघा वृष्टिं न व्यभिचरन्ति । 'एवम्माया' इत्युपलक्षणेनापरेऽपि दृष्टिहेतवोदयस्तदर्थाः" इति वचनात् , तेन सन्निकषः प्रत्यासत्तिरिन्द्रियस्य प्राप्ति सम्बन्ध इति यावत् । स च षोढाः। x x x | अथ निकर्षग्रहणमेवास्तु 'सग्रहणं व्यर्थ, न, 'संशब्दग्रहणस्य सन्निकर्षषट्कप्रतिपादनार्थत्वात् । xxx । ज्ञानसंग्रह सुखादिनिवृत्यर्थ, सुखादीनामज्ञानरूपत्वात् । x x । अव्यपदेश्यं नामकल्पनारहितं, नामकल्पनायां हि शाब्दं स्यात् । अव्यपदेश्यपदग्रहणाभावे हि, व्यपदेशःशब्दा, तेनेन्द्रियार्थसनिकर्षेण चोभाभ्यां यदुत्पादितं ज्ञानं तदप्यध्य, फलं स्यात्तनि. पृश्यर्थमव्यपदेशपदोपादानम्।xx । इन्द्रियजन्यस्य मरुमरीचिकासदकज्ञानस्य किशकले कलधौतबोधादेश्च निवृत्त्यर्थमव्यभिचारिपदोपादानम् । यदतम्मिस्तदुत्प.