________________
विद्याण्टीका प्रलो०१७] बालावबोधाय नामान्यप्याह-"प्रमाण १ प्रमेय २ संशय ३प्रयोजन ४ दृष्टान्त ५ सिद्धान्ताऽ-६ वयव ७ तर्क ८ 'निर्णय ९ वाद १० जल्प ११ वितण्डा १२ हेत्वाभास १३ छल १४ जाति १५ निग्रहस्थानानां १६ तत्त्वानां ज्ञानानिःश्रेयस सिद्धिरिति षोडश । 'एषामेवं प्ररूपणे ति तत्त्वानामेवममुना प्रकारेण प्ररूपणा नाममात्रप्रकटनमित्यर्थः । अथैकैकस्य स्वरूपमाह-तत्रादौ प्रमाणस्वरूपं प्रकटयनाइ-' अर्थोपलब्धिहेतुः प्रमाणं स्यात्' अर्थस्य पदार्थस्योपलब्धिः ज्ञानं तस्य हेतुः कारणं प्रमाणं स्यात् भवेत् । परापरदर्शनापेक्षया प्रमाणानामनियतत्वात् सन्दिहानस्य संख्यामुपदिशन्नाह-'तचतुर्विधम् ' इति, तत् प्रमागं चतुर्भेदं ज्ञेयमिति ॥१४-१५-१६॥ प्रत्यक्षमनुमानं च, शाब्दमुपमया सह ।
व्याख्या--प्रमाणनामानि निगदसिद्धान्येव केवलनुपमया सहेत्युपमानं प्रमाणम् । अथ प्रत्यक्षानुमानस्वरूपमाहतंत्रेन्द्रियार्थसम्पर्को-त्पन्नमव्यभिचारकम् ॥१७॥
१९ पश्यत स्याद्वादमञ्जरी पृ६९तम इदं गौतमसूत्रम् १-१-१ ।
, 'विनिर्णय पु. । २ नं चोपमानं शाब्दिकं तथा। ध. । मूलस्थपाठस्तु 'ध'प्रती प्रत्यन्तरत्वेनादृतोऽस्ति । ३ तन्द्रियार्थसन्निकर्षोत्पत्र' जं. पु.।