________________
लिया टीका ग्लो० १२]
प्रत्यक्षो न हि बाह्यवस्तुविस्त(स)रः सौत्रान्तिकैराश्रितः। . योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः * स्वस्थां परां संविदम् ॥१॥ इति ।
" ज्ञानपारमिताद्या दश ग्रन्थाः, तर्कभाषा हेतुबिन्दुस्तट्टीकाटतर्कनाम्नी प्रमाणवार्तिकं तत्त्वसंग्रहा न्यायबिन्दुः +कमलशीलो न्यायप्रवेशकश्चेत्यादयस्तमन्था इति । " (पृ. १९)
श्रीमन्मध्वाचार्यविरचिते सर्वदर्शनसंग्रहे चैवं प्रतिपादितम्-" ते च नौदा माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसंज्ञाभिः प्रसिद्धा यथाक्रम सर्पशून्यत्वबाह्यशून्यत्वबाह्यानुमेयत्वबाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते ।(पृ. १६)
तत्रालयविज्ञानं नामाहमास्पदं विज्ञानं नीलाछुल्लेखि च प्रवृत्तिविज्ञानम, यथोकम्-"तत्स्यादालयविज्ञानं, यद्भवेदहमास्पदम् । तत्स्यात्प्रवृत्तिविज्ञानं, यत्नीलादिकमुल्लिखेत्॥” इति । तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव । (पृ. ३८) कादाचित्कप्रत्ययश्चतुरः प्रत्ययान्प्रतीत्योत्पद्यते, "ते चत्वारः प्रत्ययाः प्रसिद्धाः-आलम्बनसमनन्तरसहकार्यधिपतिरूपाः।" (पृ. ३९) .. ___ * 'स्वच्छा 'मितिश्रीमद्राजशेखरीयपइदर्शनसमुच्चये पाठौँ मुद्रितः। (पृ. १४)
+ अयं च प्रन्थकारामिधानः, सच तत्त्वसंग्रहस्य कर्ता, एतत्संग्रहार्य राजमरीयमहदर्शनसमुच्चये “कमलशैल" इति प्रोक्तम् ।