________________
विद्या०टीकालो० १]
दादिसुभटवृत्तित्वात् भगवतश्च दुःखसंपादिविषयोपसर्गसंहिष्णुत्वेन सुभर्टरूपत्वात् तथा चोक्तम् -
5
1
विदारणात्कर्मततेर्विराजना - तपः श्रिया विक्रमतस्तथाऽद्भुतात् । भवत्प्रभोदः किल नाकिनायक - श्चकार ते वीर इति स्फुटाधिभाम् ॥” (१)
66
इति युक्तियुक्तं ग्रन्थप्रारम्भे वीरजिननमस्करणं प्रकरण कृतः । यद्वा आसन्नोपकारित्वेन युक्ततरमेव श्रीवर्द्ध मानतीर्थकृतो नमस्करणम्। तमेव विशिनष्टि - किम्भूतं ' सद्दर्शनं' सतु - शोभनं दर्शनं - शासनं सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति । ननु दर्शन - चारित्रयोरुभयोरपि मुक्त्यङ्गत्वात् किमर्थ ' सद्दर्शन' मित्येकमेव 10 विशेषणमाविष्कृतम् ? ननु दर्शनस्यैव प्राधान्यात्, यत् सूत्रम् - " भेट्टेण चरित्ताओ, दंसणमिह दढयरं गहेयवं । सिज्यंति चरणरहिया, दंसणरहिया न सिज्यंति ॥ (२) इति तद्विशेषणमेकमेव युक्तम् । पुनः कथम्भूतं ? ' स्याद्वाददेशकं', स्याद् - विकल्पितो वादः स्याद्वादः - सदसनित्याऽनित्या15 ऽभिलाप्याऽनभिलाप्यसामान्यविशेषाद्यात्मकस्तं दिशति-भविकेम्य उपदिशति यस्तम् । अत्रादिमार्धे भगवतोऽतिशयचतुष्टयमाक्षिप्तंसद्दर्शनमिति ज्ञानदर्शनयोः सहचारित्वाद् ज्ञानातिशयः १, जिनं वीरमिति रागादिजेतृत्वाद् अष्टकर्माद्यपायनिराकर्तृत्वाच्चापायापगमा
20
* वृत्तित्वात्, जं. । A 'ग्रन्थारम्मे' घ. | B "कमेव ' जं. । २ विलोक्यत एतत्पद्यं श्री भगवतीसूत्रवृत्तौ, मु. पृ. ३४ / १ | C शेषणमेव पु. जं. । D ' किम्भूतं' ध. ।