________________
विद्य० टीका श्लो० ८१ ]
१४५
नास्ति, अन्यच्च न विद्येते, कौ ? धर्माधर्मौ, ' धर्मश्च' ' अधर्म'श्चेति द्वन्द्वः, पुण्यपापे सर्वथा न स्त इत्यर्थः । पुण्यपापयोर्धर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि पुण्यपापयोरभावे
૧૪૨
कौतस्त्यं तत्फलम् ? इत्यर्थः ॥ ८० ॥
१४३
तच्छास्रोक्तमेव सोल्लुण्ठं दर्शयन्नाह, तथा च तन्मतम् -- " एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥ ८१ ॥ '
व्याख्या -- तथा चेत्युपदर्शने, तन्मतं प्रस्तावान्नास्तिकमतं, कथम् ? इत्याह-अयं लोकः संसारः, एतावानेव एतावन्मात्र एव, यावान् यावन्मात्र, इन्द्रियगोचरः इन्द्रियं स्परीनरसनघ्राणचक्षुःश्रोत्रभेदात् पञ्चविधम्, तस्य ' गोचरो' विषयः, पञ्चेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरं 'किञ्चन, अत्र 'लोक' ग्रहणाल्लोकस्थपदार्थसार्थसङ्ग्रहः । यच्चापरे पुण्यपापसाध्यं स्वर्गनरकाद्याहुस्तदप्रमाणं, प्रत्यक्षाभावादेव, 'अप्रत्यक्षमप्यस्ती 'ति चेत् शशशृङ्गवन्ध्या१४२. धर्माधर्मयोरभावे कुतस्त्यं तत्फलम् ? इत्यर्थः बृ० वृ० पृ १२२/१ ।
""
१०
इति
१४३. सोल्लुण्ठं यथा ते स्वशास्त्रे प्रोचिरे तथेव दर्शयन्नाह इति पृ० वृ० पृ. १२२/१ ।
१ किञ्चित् । अत्र ध.
39