________________
विद्या० टीका श्लो० ७६ ]
१३९
A
व्याख्या - यत्र वस्तुरूपे अभावादौ पदार्थे प्रमाणपञ्चकं पूर्वोक्तं न प्रवर्त्तते न जायते तत्राभावप्रमाणता ज्ञेयेति सम्बन्धः । 'किमर्थम् ? इत्याह- वस्तुसत्तावबोधार्थ, 'वस्तुनो 'भावरूपस्य मुण्डभूतलादेः, 'सत्ता' घटाद्यभावसद्भावः, तस्य ' अवबोधः ' प्रामाणिकपथावतारणं, ' तदर्थ' तद्धेतोरित्यर्थः । ननु -- कथमभावस्य प्रामाण्यं ? प्रत्यक्षं तावद्' भूतलमेवेदं घटादि न भवतीत्यन्वयन्यतिरेकद्वारेण वस्तुपरिच्छिदंस्तदधिकं विषयमभावैकरूपं निराचष्टे इति किं विषयमाश्रित्याभावप्रामाण्यं स्यात् ? ' नैवं घटाभावप्रतिबद्ध भूतलग्रहणासिद्धेः, तदुक्तम्
+6
१३८ न तावदिन्द्रियेषा, ' नास्ती 'त्युत्पद्यते मतिः । भावांशेनैव संयोगो, योग्यत्वादिन्द्रियस्य हि ॥ (६७)
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं 'नास्तिता 'ज्ञानं, जायतेऽक्षानपेक्षया ॥ (६८)
;"
इयं च षट्प्रकाराप्यर्थापत्तिर्नाध्यक्षमतीन्द्रियशक्त्याद्यर्थविषयत्वात्, अत एव नानुमानमपि, प्रत्यक्षपूर्वकत्वात्तस्य, ततः प्रमाणान्तरमेवार्थापत्तिः सिद्धा । इति बृ. हृ. तो विज्ञेयम्, पृ. ११९ ।
१ किमित्याह जं । २ टाद्यभाव ध. ।
३ यदुक्तम् जं. ।
(6
""
१३८ श्लोकवार्त्तिकम् ५. अभावपरिच्छेदे श्लो० १८ मी० पृ. १५ । एतदन्तरं च वृत्तं न ( ६८ ) " श्लो०
१७
99
इति प्र० इति तत्रैव ।