________________
१३८
[ षड्दर्शनस० अमावप्रमाणमाहप्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । *वस्तुसत्तावबोधार्थं, तत्राभावप्रमाणता॥७॥ प्रत्यक्षादिप्रमाणषटकविज्ञातोऽर्थो येन विना नोपपद्यते तस्यार्थस्य कल्पनमापत्तिः, तत्र प्रत्यक्षपूर्विकार्थापत्तिर्यथा-अग्नेः प्रत्यक्षेणाष्णस्पर्शमुपलभ्य दाहकशक्तियोगोऽर्थापत्या प्रकल्प्यते, न हि शक्तिरध्यक्षपरिच्छेद्या नाप्यनुमानादिसमधिगम्या, प्रत्यक्षया शक्त्या सह काचदर्थस्य सम्बन्धासिद्धेः, अनुमानपूर्विकार्थापत्तिर्यथा-आदित्यस्य देशान्तरप्राप्त्या देवदत्तस्येव गत्यनुमाने, ततोऽनुमानाद्गमनशक्तियोगोऽर्थाफ्यावसीयते, उपमानपूर्विकार्थापत्तिर्यथा-गवयवद्गौरित्युक्तेराद्वाहदोहादिशक्तियोगस्तस्य प्रतीयतेऽन्यथा गोत्वस्यैवायोगात् , शब्दपूर्विकार्थापत्तिः श्रुतापित्तिरितीतरनामिका यथा-शब्दादर्थप्रतीतौ शब्दस्यार्थेन सम्बन्धसिद्धिः, अर्थापत्तिपूर्विकार्थापत्तिर्यथा-उक्तप्रकारेण शब्दस्यार्थेन सम्बन्धसिद्धावन्नित्यवसिद्धिः पौरुषेयवे शब्दस्य ( अर्थेण सह ) सम्बन्धायोगात् , अभावपूर्विकापत्तियथा-जीवतो देवदत्तस्य गृहेऽदर्शनादर्थाद्वहिर्भावः । अत्र च चतसृभिरपत्तिभिः शक्तिः साध्यते, पञ्चम्या नित्यता, षष्ठ्या गृहादहिभूतो देवदत्त एव साध्यते इत्येवं षटप्रकारार्थापत्तिः । अन्ये तु श्रुतार्थापत्तिमन्यथोदाहरन्ति-पीनो देवदत्तो दिवा न भुंक्त इति वाक्यश्रवणाद्रात्रिभोजनवाक्यप्रतीतिः श्रुतार्थापत्तिः।
x वस्त्वसत्ता ध.। * अथाभा प्र.।