________________
विद्या० टीका लो० ७०-७१ ]
१३३
इत्यादिभावनया रागद्वेषादिदोषतिरस्कारपूर्वकं भावनीय
मिति ॥ ६९ ॥
अथ यथावस्थितार्थव्यवस्थापकं तत्वोपदेशमाह - अत एव पुरा कार्यों, वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा, कर्तव्या धर्मसाधनी ॥७०॥
व्याख्या - यतो हेतोर्वेदाभिहितानुष्ठानादेव तत्त्वनिर्णयोऽत एव पुरा पूर्व प्रयत्न तो यत्नाद्वेदपाठः कार्यः, ऋग्यजुः - सामाथर्वाणो वेदास्तेषां पाठः - कण्ठपीठलु उत्पाठप्रतिष्ठा, न तु श्रवणमात्रेण सम्यगवबोधस्थिरता । ततोऽनन्तरं धर्मसाधनी, 'धर्मः ' पुण्योपचय हेतुः, धर्मस्य हेयोपादेयस्वरूपस्य वेदाभिहितस्य जिज्ञासा ज्ञातुमिच्छा कर्त्तव्या वेदोक्ताभित्रेयविधाने यतितव्यमित्यर्थः ॥ ७० ॥
वेदोक्तधर्मोपदेशमेवाहनोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति । प्रवर्त्तकं वचः प्राहुः, स्वःकामोऽग्निं यथा यजेत् ॥७१॥
व्याख्या - नोदनैव लक्षणं यस्य स नोदना लक्षणो धर्मः, तत्स्वरूपमेव सूत्रदाह - तु पुनर्नोदना क्रियां प्रति प्रवर्त्तकं वचः १. शमाह ध. । २. यजेद्यथा ॥ पु. ।