________________
विद्या० टीका लो० ५८ ]
कुलिङ्गधारिणो विरुद्धाचारचारिणो जिनमन्दिरमूर्त्तिपूजाद्वेषिणो व्याकरणन्यायशास्त्रादिविद्याविहीनाः पञ्चचत्वारिंशदागमान् सूत्रनिर्युक्तिभाव्य चूर्णि टीकारूपां च सकलां पञ्चाङ्ग न मन्यन्ते, एतेषु सप्तविंशति - द्वाविंशत्यादिटोलकमेदा नवकोटीषट्कोटचादिकाश्च एतस्मात्पुनर्भीखमतः तेरापन्थीनामकस्त्रयोदशगोष्टिलो भेदो जातो य भर्त्तदयादानधर्ममपि न मन्यते, आर्याऽऽनीतभीक्षामपि भुङ्क्ते, दिगम्बरवदेतेऽपि पाश्चात्याः, न एतेषां किञ्चित्स्वतन्त्रं तर्कशास्त्रादिकं, श्वेताम्बरसत्कसाहित्यादिसाधनैः स्ववृत्तिं कल्पयन्त एते न जैनाः किन्तु जैनाभासा एव । अत्र पुनर्बृहद्वृत्तित एवाग्रे लिख्यते—
११९
66
अथानुक्तर्माप किमपि लिख्यते - प्राप्यकारीण्येवेन्द्रियाणीति कणभक्षाक्षपादमीमांसक साङ्ख्याः समाख्यान्ति चक्षुश्रोत्रेतराणि तथेति ताथागताः, चक्षुवर्जानीति स्याद्वादावदातहृदयाः । श्वेताम्बराणां संमतिर्नयचक्रवालः, स्याद्वादरत्नाकरो रत्नाकरावतारिका तत्त्वार्थः प्रमाणवार्त्तिकं प्रमाणमीमांसा न्यायावतारोऽनेकान्तजयपतोकाऽनेकान्तप्रवेशो धर्मसंग्रहणी प्रमेयरत्नकोशश्चेत्येवमादयोऽनेके तर्कग्रन्थाः दिगम्बराणां तु प्रमेयकमलमार्तण्डो न्यायकुमुदचन्द्र आप्तपरीक्षाऽष्टसहस्री सिद्धान्तसारो न्यायविनिश्चयटीका चेत्यादयः । (पृ. १०७/१ )
जैने दर्शने " तीर्थङ्कराश्चतुर्युक्ता विंशतिर्वृषभादयः । क्लिष्टाष्टकर्मनिर्मुक्ताः केवलज्ञानभास्कराः ॥८॥ महाव्रतधरो धीरः सर्वागमरहस्यवित् । क्रोधमानादिविजयी निर्ग्रन्थो गुरुरुच्यते ॥ ९ ॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे इह स्मृते ।