________________
विद्या टीका श्लो० ४८-४९ ]
व्याख्या-तत्रेति जैनमते चैतन्यलक्षगो जोव इति सम्बन्धः। विशेषणान्याह - ज्ञानादिधर्मेभ्यो भिन्नाभिन्न इति, ज्ञानमादिर्येषा धर्माणामिति ज्ञानदर्शनचारित्ररूपा धर्मा गुणास्तेभ्योऽयं जीवश्चतुईशभेदोऽपि कथञ्चिद्भिन्नः कथञ्चिदभिन्न इत्यर्थः, एकेन्द्रियादिपछे. न्द्रियपर्यन्तेषु जीवेषु स्वापेक्षया ज्ञानवत्त्वमस्त्येवेत्यभिन्नत्वं ज्ञानादिभ्यः, परापेक्षया पुनरज्ञानवत्त्वमिति मिन्नत्वं । लेशतश्चेत् सर्वजीवे न ज्ञानवत्त्वं तदा जीवोऽजीवत्वं प्राप्नुयात् , तथाच सिद्धान्तः“ सबजीवाणं पि य णं अक्खरस्स अणंतओ भागो निच्चुग्याडिओ जह सो वि आवरिजा ता जीवो अजीवत्तणं पाबिजा।" "सुठु वि मेहसमुपए, होइ पहा चंदसूराणं।"
तथा विवृत्तिमान् इति, वित्तिः-परिणामः, सोऽस्यास्तीति मवर्थोयो मतुः, सुरनरनारकतिया एकेन्द्रियादिपञ्चेन्द्रियपर्यन्त
+ तत्र जै° ध.।
९७ सुक्ष्मैकेन्द्रिया पर्याप्त १-सूक्ष्मैकेन्द्रियपर्याप्त २-बादरैकेन्द्रियापर्याप्ता .. ३-बादरैकेन्द्रियपर्याप्त ४-द्वीन्द्रियापर्याप्त ५-द्वोन्द्रियपर्याप्त ६-त्रीन्द्रियापर्याप्त
७-त्रीन्द्रियपर्याप्त ८-चतुरिन्द्रियापर्याप्त ९-चतुरिन्द्रियपर्याप्त १०-असंज्ञिपञ्चेन्द्रियापर्याप्त ११-असंज्ञिपञ्चेन्द्रियपर्याप्त १२-संक्षिपञ्चेन्द्रियापर्याप्त १५-संहिपंचेन्द्रियपर्याप्त. १४-इति चतुर्दशमेदाः। विवृतं चैतञ्चतन्यलक्षण इति पदुस्त वृतावत्रैव पृ० ९६। नन्दिसूत्रं मूलपाठः पृ. २८ (रतलाम)।