________________
[षड्दर्शनस० कर्मेन्द्रियाणि । तथा मनः, एकादश "मन इन्द्रियमित्यर्थः । अन्यानि पश्च रूपाणि तन्मात्राणि चेति-रूपरसगन्धशब्द. स्पर्शाख्यानि तन्मात्राणीति षोडश ज्ञेयाः॥ ३८-३९ ।।
पञ्च तन्मात्रेभ्यश्च पञ्चभूतोत्पत्तिमाहरूपात्तेजो रसादापो, गन्धाद्भूमिः स्वरान्नभः । स्पर्शाद्वायुंस्तथा चैवं, पञ्चभ्यो भूतपञ्चकम् ॥ ४० ॥
व्याख्या-पञ्चभ्य इति पञ्च तन्मात्रेभ्यो भूतपञ्चकमिति सम्बन्धः । रूपतन्मात्राजः, रसतन्मात्रादापः, गन्धतन्मात्राद्भूमिः, स्वरतन्मात्रानमः-आकाशं, स्पर्शतन्मात्राद्वायुः, एवं पञ्चतन्मात्रेभ्यः पश्चभूतान्युत्पद्यन्ते । असाधारणैकैकगुणकथममिदं, उत्पत्तिश्चशन्दतन्मात्रादाकाशं शब्दगुणं, शब्दो धम्बरगुण इति, शब्दतन्मात्र 'सहितात् स्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुण इति, शब्दस्पर्शतन्मात्र'सहिवापतन्मात्रात्तेजः शब्दस्पर्शरूपगुणमिति, शब्दस्पर्शरूपतन्मात्रसहिंताद्रसतन्मात्रादापः शब्दस्पर्शरूपरसगुण इति, शब्दस्पर्शरूपरसतन्मात्रसहिताद्न्धतन्मात्रात् पृथिवी शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायते, इति पश्वभ्यो भूतपश्चकमित्यर्थः। ४०॥
५४."मनो हि बुद्धीन्द्रियमध्ये बुद्धीन्द्रियं भवति कर्मेन्द्रियमध्ये कर्मेन्द्रियम् , तञ्च तत्त्वार्थम(र्था,न्तरेणापि संकल्पवृत्ति ।” (बृहद्वृत्तिः पृ. ४२) .
१ स्तथैवं च, पंध.। पञ्चभ्यः पञ्चभूतकमि पु. ज.।