________________
किञ्च, तस्य सर्वगतत्वेऽङ्गीक्रियमाणेऽशुचिषु निरन्तर - सन्तमशेषुनरकादिस्थानेष्वपि तस्य वृत्तिः प्रसज्यते । यथा चानिष्टापत्तिः ।
श्रथ युष्मत् पक्षेऽपि यदा ज्ञानात्मना सर्वं जगत् त्रयं व्याप्नोतीत्युच्यते तदा शुचि रसास्वादीनामप्युपालम्भसंभावनात् नरकादि दुःख स्वरूप संवेदनात्मकतया
अनिष्टापत्तिस्तुल्यैवेति
चेत्,
दुःखानुभवप्रसङ्गात् तदेतदुपपत्तिभिः प्रतिकत्तुमशक्तस्य धूलिभिरिवाषकरणम् । यतो हि ज्ञानमप्राप्यकारिस्वस्थानस्थमेवविषयं परिच्छिनत्ति न पुनस्तत्र गत्वा । तत् कुतो भवदुपालम्भ: समीचीनः । न हि भवतोऽप्यशुचिज्ञानमात्रेण तद् रसानुभूतिः । तद्भावे हि स्रक्चन्दनाङ्गनारसवत्यादिचिन्तनमात्रेणैव तृप्तिसिद्ध तत् प्राप्तिप्रयत्न वैफल्यप्रसक्तिरिति ।
-
यत्त ज्ञानात्मना सर्वगतत्वे सिद्धसाधनं प्रागुक्तम् तच्छक्तिमात्रमपेक्ष्य मन्तव्यम् । तथा च वक्तारो भवन्ति । अस्य मतिः सर्वशास्त्रेषु प्रसरतीति । न च ज्ञानं प्राप्यकारि तस्यात्मधर्मत्वेन बहिर्निगमाभावात् । बहिर्निंगमे चात्मनोऽचेतनत्वतया प्रजीवत्वप्रसङ्गः । धर्मिणमतिरिच्य क्वचन केवलो विलोकितः । यच्च परे दृष्टानयन्ति यथा - सूर्यस्य किरणा: गुणरूपा अपि सूर्याद्
। न हि धर्मो
विश्वकर्त्तृत्व-मीमांसा - १८