________________
३६
प्रमोदाविवृतिसंवलितं
र्माऽऽकाश-जीव-स्कन्धानांतद्देशस्य चेति षण्णां प्रदेशमाहा
देश-प्रदेशो नातिरिच्येते, "दासेन मे [खरः क्रीतो, दासो मम खरोऽपि मे]" इत्यादिन्यायाद् देशस्य स्वीय. त्वेन तत्प्रदेशस्याषि स्वीयत्वाव्यभिचारात् पश्चानामेव प्रदेश इति सङ्ग्रहः।
व्यवहारस्वाह-पश्चानांप्रदेशस्तदा स्याद् यदि साधापुद्गलस्य स्वयं प्रदेशरूपतया तद्देश-प्रदेशयोरभावात् , कालस्तु परमनिरुद्धकसमयरूप इति तस्यापि न देश-प्रदेशाविति बोध्यम् । तद्देशस्य धर्माऽधर्माऽऽकाश-जीव-स्कन्धदेशस्य । षष्णां धर्माऽधर्माऽऽकाश-जीव स्कन्धतद्देशानाम् , नैगमनयः षण्णां प्रदेशमिच्छति। __ सङ्ग्रहस्तु धर्माऽधर्माऽऽकाश-जीव-स्कन्धानां पञ्चानामेव प्रदेशमिच्छति धर्मदेशस्य धर्मीयत्वेन धर्मदेशप्रदेशस्यापि धर्मप्रदेशत्वाद् , एवमधर्मदेशप्रदेशादेरप्यधर्मादिप्रदेशत्वादित्याह-देश-प्रदेशाविति-धर्मादितो धर्मादिदेशोऽतिरिक्तस्ततो धर्मादिदेशप्रदेशोऽतिरिक्त इत्येवं देश-प्रदेशौ विभिन्नौ न, किन्तु धर्मादिदेशानां धर्मादिसम्बधिनां प्रदेशस्य धर्मादिप्रदेशत्वमेव । एतदेव दृष्टान्तावष्टम्भेन भावयति-दासेनेति । देशस्य धर्मादीनां देशस्य । स्वीयत्वेन धर्मादिसम्बन्धित्वेन । तत्प्रदेशस्यापि धर्मादिदेशसम्बन्धिप्रदेशस्यापि । स्वीयत्वाव्यभिचाराद् धर्मादिसम्बन्धित्वनियमात् । पञ्चानामेव धर्माऽधर्माऽऽकाशजीव-स्कन्धानामेव, एवकारेण तद्देशस्य व्यवच्छेदः !
तत्र व्यवहाराभिप्रायं दर्शयति-व्यवहारस्त्वाहेति-यस्यैकस्यानेकसम्बन्धित्वं तस्यैव साधारणस्यानेकसम्बन्धितया व्यपदेशो व्यवहारपथमवतरति, यथा-एकं हिरण्यं बहुमूल्यं पञ्चानां धनमविभक्तं तस्य पञ्चसम्बन्धित्वव्यपदेशः, प्रदेशस्तु यो धर्मस्य तदन्य एवाधर्मस्य, ततोऽन्य एवाकाशस्य, तस्मादन्य एव च जीवस्य, ततो व्यतिरिक्त एव च स्कन्धस्येति नैकस्मिन् प्रदेशे धर्मादीनां सम्बन्धित्वमिति