________________
प्रमोदाविवृतिसंवलितं
मू०-ऐन्द्र श्रेणिनतं नत्वा, वीरं तत्त्वार्थदेशिनम् ।
परोपकृतये बमो, रहस्यं नयगोचरम् ॥१॥ रहस्यं श्रीमन्तः किमपि नयगं वाचकवराः, समन्तात् सिद्धान्ताम्बुधिमथनतो रत्नमवरम् । अभिव्यक्तं चक्रर्यदिह भविता तत्र विधियो, ममैषा सम्पृक्ता कृतिरपि न हास्याऽमलधियाम् ॥५॥ मूलार्थवोधप्रवणा व्याख्या लावण्यसूरिणा। सतां नयरहस्यस्य मोदाय क्रियते मया ॥६॥
प्रारब्धनिर्विघ्नपरिसमाप्तये मङ्गलमाचरन् कर्तव्यं प्रतिजानीतेऐन्द्रेति । यद्यपि मङ्गलं विनाऽपि नास्तिकादीनां ग्रन्थसमाप्तिईश्यत इति व्यतिरेकव्यभिचारेण मङ्गलस्य समाप्ति प्रति कारणता न सम्भवति, तत एव च न विघ्नध्वंसं प्रत्यपि सा, फलान्तरं प्रति कारणता तु तस्य न कस्याऽप्यनुमतेति निष्फलत्वान कर्तव्यमेव मङ्गलम् , तथाऽपि अविगीतशिष्टाचारविषयत्वेन मङ्गलस्य सफलत्वसिद्धौ फलान्तरस्यानुद्देश्यत्वेन मङ्गलफलत्वासम्भवात् समाप्तिफलकत्वमेव । नास्तिकैरेतजन्मनि मङ्गलेऽकृतेऽपि फळबलाजन्मान्तरे तैमङ्गलं कृतमित्यवधारणसम्भवेन न व्यतिरेकव्यभिचारः । कादम्बरीप्रभृतिग्रन्थे मङ्गलसत्त्वेऽपि समाप्त्यदर्शनेनाऽन्वयभ्यभिचारस्तु नोद्भावनाहः, विघ्नध्वंसद्वारैव समाप्ति प्रति मङ्गलं कारणं न साक्षात्, एवञ्च यत्र समाप्तिन दृश्यते तत्र बलवत्तरो विघ्न इति तादृशविघ्नविनाशं प्रति बलवत्तरस्यैव मङ्गलस्य कारणत्वमिति तादृशमङ्गलाभावान्न तत्रत्यबलवत्तरविघ्नध्वंस इति तादृशव्यापारलक्षणसम्बन्धेन कारणीभूतस्य मङ्गलस्याभावेन समाप्त्यभावेऽपि स्वजन्यविघ्नध्वंसवत्त्वसम्बन्धेन मङ्गलसत्त्वे स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बन्धेन समाप्त्यभावलक्षण