________________
नयरहस्यप्रकरणम् ।
चैवमप्यभावसामान्याभ्युपगमापत्तिः, तदा तु सर्वत्र शब्दानुगमादेवानुगतव्यवहारः कारणत्वव्याप्त्यादौ परेणापीत्थमेवाभ्युपगमादित्यादिपश्चितमन्यत्र । "लौकिकसम उपचारमायो विस्तृतार्थो व्यवहारः" इति तत्त्वार्थभाष्यम् [अ० १, सू० ३५.] । विशेषप्रतिपादन परमेतत् , यथाहि-लोको निश्चयतः पञ्चवर्णऽपि भ्रमरे कृष्णवर्णत्वमेवाङ्गीकरोति तथाऽयमपीति लौकिकसमः । न च कृष्णो भ्रमर इत्यत्र विद्यमानेतरवर्णप्रतिषेधाद् भ्रान्तत्वम् , अनुव्याहन्यत एवेति देन्माऽस्त्वखण्डाभावस्वरूपमपि तत् , वासनाप्रभवविकल्पवशानुगतस्य सामान्यस्याप्येकशब्दयोजनात एवानुगतव्यवहारः, दृश्यते च कारणत्व-व्याप्त्यादावनुगतसामान्याभावेऽप्यनुगतव्यवहारः शब्दानुगमादेव, नहि घटकारणेषु दण्डचक्रादिषु सामान्यसेकम् , अथापि कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यस्मानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वादिपरिकल्पितैकशब्दानुगममात्रेण कारणं कारणमित्यनुगतव्यवहारः, साध्य-साधनतत्सम्बन्धादिभेदेन व्यातीनां भेदेऽपि भवत्येवेदं व्याप्यमिदं व्याप्यमित्यनुगतव्यवहारः शब्दानुगमादेवेति परेऽपीत्थमेवाभ्युपगच्छन्तीत्याहयदि चापीति । तत्त्वार्थभाष्योतं व्यवहारनयलक्षणमुपदर्शयतिलौकिकसम इति । अनेनापि भाष्येण व्यवहारस्य विशेषाभ्युपगन्तृत्वमेवावेद्यत इत्याह-विशेषेति । एतद् निरुक्तभाग्यम् । तत्र लौकिकसमत्वं व्यवहारे उपशादयति-यथाहीति। निश्चयतः-निश्चयनयतः। तथाऽयमपि व्यवहारनयोऽपि भ्रमरे कृष्णवर्णत्वमेवाभ्युपगच्छति । ननु पञ्चवर्णे भ्रमरे कृष्णेतरवर्णसद्भावेऽपि केवलकृष्णवर्णत्वावबोधस्यायथार्थावगाहित्वाद व्यवहारनयाभ्युपगतस्य तस्य भ्रान्तत्वं स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । पञ्चवर्णे कृष्णवर्णस्यापि सद्भावात् तद्वति तद्वगादित्वेन नास्य भ्रान्तत्वम् , यद्यनेन नास्ति कृष्णेतरवर्ण इत्येवमन्यवर्णप्रतिषेधावभासनं क्रियेत तदा कृष्णेतरवर्णवति तद