________________
६
]
[विषयतावादे
कत्वस्वीकारात् । 'वह्निमान् पर्वतो घटवानि'त्याद्याकारकानुमितिविशेष्यताया वह्नित्वान्यघटत्वावच्छिन्नप्रकारतानिरूपितत्वेन व्यभिचारानवकाशात् ।।
न चैवमपि 'वह्निमत्पर्वतवान् देश' इत्याद्याकारकानुमितौ व्यभिचारो दुरस्तादृशानुमितिविशे यताया वह्नित्वान्यधर्मानवच्छिन्नप्रकारतानिरूपितत्वादिति वाच्यम् , तादृशमुख्यविशेष्यताया एव निवेशनीयत्वात्। न चैत दपेक्षया पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवहिनत्वावच्छिन्नविधेयतायास्ताशसिद्धयभावजन्यतावच्छेदकत्वे लाघवात्तत्सिद्धिरिति वाच्यम् लाघवेनातिरिक्तविषयतासिद्धेः प्रागेव निरस्तत्वादिति चेत् ?
मैवम् , अतिरिक्तविधेयतानभ्युपगमे 'वहिं नानुमि. नोमी ति प्रतीतेरनुमितिनिष्ठो वह्निप्रकारत्वाभावः, आत्मनिष्ठो वह्निप्रकारकानुमितित्वावच्छिन्नाभावो वा विषयो वाच्यस्तथा च 'वह्निमान् पर्वतो घटवान् , वह्निमत्पर्वतवान् देश' इत्याधनुमितिकाले तथाप्रतीत्यनुदयप्रसँगस्तादृशानुमितो वह्निप्रकारत्वाभावस्यात्मनि च तथाविधानुमितित्वावच्छिन्नाभावस्यासत्त्वात् । मम तु वह्निविधेयकत्वाभावस्यानुमितौ वह्निविधेयकानुमितित्वावच्छिन्नाभावस्यात्मनि वा तादृशप्रतीतिविषयत्वोपगमान्नानुपपत्तिः । . न च तदानीं भ्रमरूपैव तादृशप्रतीतिरुत्पद्यते, तत्र च विषयासचमकिंचित्करमिति वाच्यम , यथाकथंचित् प्रमात्व