________________
६६ ]
[ विषयतावादे निरूपितप्रकारतारूपा स्वीकार्या । तद्भेदे 'रक्तो दण्डो, दण्डवान् पुरुष'इत्यादिसमूहालंबनतादृशविशिष्टबुद्धेवै लक्षण्यानुपपत्तेः । उभयत्रैव रक्तत्वप्रकारतानिरूपिता या दण्डप्रका. रता तन्निरूपितविशेष्यतायाः सत्त्वादिति ।
केचित्तु उद्देश्यत्वविधेयत्वे अपि विषयताविशेषौ । न च किंचिद्धर्मावच्छिन्नविशेष्यत्वमेवोद्देश्यत्वम् , तादृशविशेष्यतानिरूपितप्रकारत्वमेव विधेयत्वमस्तु, किं तयोरतिरिक्तत्वस्वी. कारेणेति वाच्यम् , तथा सति 'वह्निमान् पर्वतो घटवानि'त्यादिबोधस्यापि पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवयादिविधेयताशालित्वात् 'पर्वतो वह्निमानि'त्यनुमित्यनंतरमिव तादृशानुमित्यनंतरमपि 'पर्वते वह्निमनुमिनोमी'त्याद्यापत्तेः । मन्मते तु तादृशज्ञानव्यावृत्तायाः पर्वतादिविशेष्यतानिरूपितप्रकारताविलक्षणपर्वतादिनिष्ठोद्देश्यतानिरूपितवयादिविधेयताया एव तादृशानुव्यवसायविषयत्वाभ्युपगमादेव तादृशानुव्यवसायाऽऽपत्यसंभवात् ।।
अथ पर्वतविशेष्यकवह्निप्रकारकानुमितित्वमेव तादृशानुव्यवसायविषयः, विषयतासंबंधेन तादृशानुव्यवसायं प्रति पर्वतविशेष्यकवहिव्याप्यवत्ताज्ञानजन्यानुमितित्वेन तादात्म्य
१ नास्ति दे० प्रतौ । २ रक्तत्वप्रकारतानिरूपितदण्डविशेष्यताया दण्डप्रकारतानिरूपितपुरुषविशेष्यतायाश्च सत्त्वात् इति दे । ३ 'अथे' त्यस्य अष्टषष्टिपृष्ठे 'चेत् ?' इत्यनेन सहान्वयःकार्यः।