________________
[ ६५
पर्वतत्वाद्यवच्छिन्नविशेष्यकवहून्याद्यनुमितित्वावच्छिन्नं प्रति पर्वतत्वाद्यवच्छिन्नविशेष्यतानिरूपितवह्निव्याप्यधूमादिप्रकारताशालिज्ञानत्वादिनानुगत हेतुत्वकल्पनमुपपद्यते । अन्यथा तत्तद्धूमादिभेदभिन्नानां प्रकारतात्वादीनां अननुगमेन तदनुपपत्तेः । प्रकारतात्वविशेष्यतात्वादिकं न मिथो विरुद्धम्, 'घठवद् भूतलमि'त्यादिज्ञाने घटत्वादिप्रकारता निरूपितघटादिनिष्ठविशेष्यताया एव भूतलादिनिष्ठविशेष्यतानिरूपितप्रकारतारूपतया तत्र विशेष्यतात्वप्रकारतात्वयोः समावेशात् । तत्र तादृशप्रकारताविशेष्यतयोर्भेदे 'घटवद् भूतलं 'द्रव्यं, ' 'द्रव्यवद् भूतलं घटश्चे' ति ज्ञानयोर्वैलक्षण्यानुपपत्तेः । उभयत्रैव घटत्वप्रकारतानिरूपिताया घटविशेष्यताया घटप्रकारतानिरूपितभूतल विशेष्यतायाश्च सत्त्वात् । मन्मते प्रथमे घटत्वप्रकारतानिरूपित घट विशेष्यता भूतलनिष्ठविशेष्यतानिरूपितप्रकारत्वाभिन्ना द्रव्यत्वप्रकारता निरूपित विशेष्यता च तद्भिन्ना । द्वितीये च द्रव्यत्वप्रकारतानिरूपित घटविशेष्यता भूतलविशेष्यतानिरूपितप्रकारताभिन्ना, घटत्वप्रकारतानिरूपित विशेष्यताच तद्भिन्नेति वैलक्षण्योपपत्तेः ।
विशेष्याविचारः ]
एवं 'रक्तदण्डवान् पुरुष' इत्यादिज्ञाने रक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतैव ( युक्ता ) पुरुषविशेष्यता -
१ 'द्रव्यं' इति नास्ति दे । २.दे. प्रतौ अधिकः पाठः ।