________________
विशेष्यताद्वैविध्यविचारः ]
[६३ भूतलत्वघटवैशिष्टयावगाहिज्ञानीय भूतलत्वादिनिष्ठानवच्छिन्नप्रकारतानिरूपितविशेष्यतानियामकसामग्र्या अपि तादृशविशिष्टवैशिष्टयबोधकाले सत्वात् तस्य तादृशविशिष्टविषयताशालित्वस्यावश्यकत्वात्ततएव तथात्वोपपत्तेः ।।
वस्तुतस्तु, विशिष्टवैशिष्टयबोधविचारे निरवच्छिन्नविषयत्वादीनां विशिष्टवैशिष्टयबोसाधारण्यस्य खण्डितत्वात्तादृशविशेष्यताशून्यबोधस्य भूतलत्वादिप्रकारतानिरूपितविशेष्यताशालित्वोपपत्तये भूतलत्वाद्यवच्छिन्नविशेष्यताया एव तत्प्रकारतानिरूपितत्वं स्वीकरणीयम् ।
अथैवं तादृशज्ञानस्य भूतलत्वप्रकारतानिरूपितभूतलत्वाद्यवच्छिन्नविशेष्यताशालित्वाद् भूतलत्वादिविशिष्टे भूतलत्वादिवैशिष्टयावगाहिनो 'भूतलं भृतलमि'त्याकारकज्ञानाद् ‘भूतलं घटवदि'त्याकारकज्ञानस्य वैलक्षण्यानुपपत्या तादृशज्ञानाद् भूतलत्वविशिष्टे भूतलत्ववैशिष्टयावगाहिस्मरणापत्तिरिति चेत् ? न, 'घटवद्भूतलमि'त्याद्याकारकज्ञानीयभूतलविशेष्यताया भूतलत्वप्रकारतानिरूप्यत्वेऽपि तस्या भूतलत्वावच्छिन्नत्वविशिष्टविशेष्यतात्वेन न तन्निरूप्यत्वम् , किंतु भूतलविशेष्यतात्वेन । 'भूतलं भूतलमि'त्यादौ च भूतलत्वावच्छिन्नत्व
१-'भूतलवाद्यनवच्छिन्नभूतलत्वादिप्र०'इति दे० । २-'अखिलविशिष्ट' इति दे० । ३-'तादृशज्ञानानन्तर' इति दे० ।