________________
६२ ]
[ विषयतावादे
भेदेन विशेष्यताभेदो न त्वेकत्र द्वयमिति रीत्या तादृशवोधः इति समूहालम्बनतस्तस्य वैलक्षण्योपपत्तिरिति ।
विशेष्यत्वं प्रकारत्वं च द्विविधम् , किश्चिद्धर्मावच्छिन्नं निरवच्छिन्नं च । तत्र किंचिद्धर्मावच्छिन्नविशेष्यता भूतलत्वद्यकविशेषणविशिष्ट घटादिरूपाऽपरधर्मवैशिष्टयावगाहिज्ञाने, तत्र घटादिप्रकारतानिरूपितभूतलविशेष्यताया भूतलत्वावच्छिनत्वात् । अन्यथा केवलमेकत्र द्वयमिति रीत्योभयवैशिष्टयावगाहिनो 'भूतलं घटवदिति ज्ञानात्तस्य वैलक्षण्यानुपपत्तेः । किंचिद्धर्मावच्छिन्नप्रकारता च वैशिष्टनिरूपितवैशिष्टयावगाहि 'घटवदि'त्याकारकज्ञाने, तत्र घटादिप्रकारताया घटत्वाद्यवच्छिन्नत्वात् । अन्यथा केवलं विशेष्ये विशेषणम् तत्र च विशेषणान्तरमि'त्येवंरीत्या 'घटत्वाद्यवगानिस्तथाविधज्ञानाद् विशिष्टवैशिष्टयबोधस्य लक्षण्यानुपपत्तिः, अपश्चितं चेदमधिकमन्यत्र ।
तदंशे विशेषणतापनस्यैव तन्निष्ठविषयतावच्छेदकत्व. मिति तु बोध्यम् । तद्धर्मावच्छिन्नविषयता च न तद्धर्मप्रकारतानिरूपिता, तस्यास्तथात्वे मानाभावात् । न चैवं 'भूतलं घटयदि'त्यादिज्ञानानां भूतलत्वादिप्रकारतानिरूपितविशेष्यताशालित्वानुपपत्तिरिति वाच्यम्, केवल मेकत्र द्वयमिति रीत्या
१- 'घटपटत्वाद्य०' इति दे । २.-'न' इति नास्ति दे० ।