________________
स्वत्ववादः ] प्रतिग्रहादेःपूर्व प्रतिग्रहादिध्वंसविरहादाऽऽदानाद्यनन्तरं च तत्प्रामभावविरहान स्वत्वव्यवहारो, विक्रयादिप्रागभावविशिष्टस्य क्रयध्वंसस्य, क्रयध्वंसविशिष्टस्य विक्रयप्रागभावस्य च विनिगमकाभावेन तथात्वादाद्यमादाय स्वत्वमुत्पन्नमित्यस्य द्वितीयमादाय च 'स्वत्वं नष्टमि'त्यस्य प्रत्ययस्य सङ्गतिः, अतिरिक्तस्वत्ववादिना स्वत्वत्वमप्यतिरिक्तमुपेयमित्यावश्यकत्वादास्तामुपदर्शितेषु ध्वंसादिषु स्वत्वकल्पनापीति सार्वभौमैः सम्प्रदायमतं समाहितम् , तच्चिन्तयं, यदेवान्यस्मै दत्तं, कालान्तरे तेन दीयमानमात्मना प्रतिगृहीतं पुनश्चान्यस्मै दत्तं तत्र प्राथमिकदानानन्तरं पुनः प्रतिग्रहादर्वागत्यग्रिमदानप्रागभावविशिष्टताऽप्रच्यवेन स्वत्वव्यवहारप्रसङ्गात् । दानध्वंसाऽसमकालीनत्वेन दानप्रागभावविशेषणे चान्तरा प्रतिग्रहकृतस्वत्वोच्छेदप्रसङ्गात् । न च स्वप्रयोज्यदानप्रागभावोपादानात् प्रतिग्रहांतरप्रयुक्तदानप्रागभावमादायाऽदोष इति वाच्यम्, तथापि यत् प्रतिगहीतमदत्तमेव नश्यति तत्र स्वप्रयोज्यदानप्रागभावाऽमिद्धेः । तत्र शुद्धः प्रतिग्रहध्वंस एव स्वत्वं, शुद्धे ह्यतिप्रसक्ते विशेषणमुपादीयते । निर्विशेषणे च तत्र ध्वस्त. त्वव्यवहारोऽपि नास्त्येवेति चेत् ? न, आश्रयनाशेऽपि तन्नाशानुपपत्तेः । - किश्च क्लृप्तध्वंसादिष्वेवातिरिक्तस्वत्वत्वकल्पनेन स्वत्वापलापे क्लुप्ताधिकरणेष्वेवाऽभावत्वमात्रकल्पनेनाभावस्याप्य