________________
३२ ]
[ वादम लायां वेका, स्वत्वनाशत्वावच्छिन्नम्प्रति कारणतावच्छेदकतया विक्रयादिष्वपरा शक्तिस्तृणादीनामिव वह्मौ सिद्धयति ।
स्वत्वत्वञ्च जातिरखण्डोपाधिर्वा । स्वत्वनाशे च जातेरसत्वेऽप्यखण्डोपाधिरेव जन्यतावच्छेदकः । वाकारोऽस्वरससूचनाय, स च बहुतरजातिकल्पनामपेक्ष्यैकस्याः शक्तेरेव कल्पनायां लाघवादिति रामभद्रसार्वमौमाः । प्रतिग्रहादीनामेकशक्तिमत्त्वेन स्वत्वमात्रेऽविशेषेण हेतुत्वे संकल्पभेदेन प्रतिग्रहादेः साधारण्येनाऽसाधारण्येन च स्वत्वोत्पत्तिः, उपादानादेम्त्वसाधारण्येनैवेति व्यवस्थित्यनिर्वाहात्स्वामिनिष्टतया विजातीयस्वत्वे प्रतिग्रहादीनां संकल्पविशेषादिसम्बन्धेन बिशिष्य हेतुत्वे त्वाद्यकल्पाऽस्वरस एव युक्त इति ध्येयम्।
यदि च चैत्रीयस्वत्वत्वावच्छिन्ने चैत्रीयप्रतिग्रहादीनामेकशक्तिमत्त्वेनैकशक्तिमत्सम्बन्धन विषयनिष्टतया हेतुत्वं पुरुषापेक्षया विषयानां बहुत्वेनावच्छेदककोटौ तनिःक्षेपायोगात् । प्रतिग्रहे चैत्रीयत्वञ्च चैत्रोद्देश्यकसंकल्पपूर्वकत्वं, तावदुद्देश्यकसंकल्पपूर्वकप्रतिग्रहाच्च तावत्स्वामिकस्वत्वसम्भव इति कार्यवैजात्यस्याऽनानुभविकत्वात्तदवच्छिन्ने विशिष्य हेतुत्वमयुक्तमिति सूक्ष्ममोक्ष्यते,तदा सार्वभौमोक्तमेव सम्यक् । . यत्तु क्वचिद्विक्रयप्रागभावविशिष्टः क्रयविनाशः, क्वचिच्च दानादिप्रागभावविशिष्टः प्रतिग्रहादिध्वंस एव स्वत्वं,