________________
११०]
[वादमालायां साध्यसत्वाद्वयभिचारवारणे च पक्षे बाधप्रसङ्गात् , स्वसमवायित्वस्वाश्रयसमवेतत्वादिघटितपरंपरासम्बन्धान्यतरसम्बन्धेन साध्यत्वेऽपि नित्यद्रव्यवृत्तिरूपादौ व्यभिचारात् । स्वाश्रयसमवेतत्वस्यापि सजातीयद्वयणुकसाधारणस्यान्यतरमध्ये निवेशान्नदोष इति चेत ? न. इदृशसम्बन्धेन साध्यस्य व्याप्तिग्रहाभावात् । 'समवायित्वे सती' त्यपहाय 'नित्यद्रव्यत्वे सती' ति निवेशने न दोष इति चेत् ? न, दृष्टान्ताऽप्रसिद्धः ।
किञ्च, विशेष समवायेन तदवृत्तिधर्ममन्तरेणापि तदवृत्तिधर्ममात्रसत्वेन यथा तद्वयावृत्तिस्तथा प्रकृतेऽपीत्यप्रयोजकत्वादुक्तव्याप्ति रेवाऽसिद्धा यो यद्वयावृत्तः स तदवृत्तिधर्मवानित्येव व्याप्तेः । किश्च, नित्यद्रव्यव्यावृत्तये विशेषपदार्थस्वीकारे तद्गतरूपादिव्यावृत्तिः कुतः ? स्वाश्रयसमवेतत्वसम्बन्धेन तत्रापि विशेष एव व्यावर्त्तक इति चेत् ? तर्हि रूपादिगत एवासौ किं न कल्प्यते ?, तस्यापि स्वाश्रयसमवायित्वसम्बधेन नित्यद्रव्यव्यावर्तकत्वसम्भवात् । रूपादीनां बहुत्वात्तत्र विशेषपदार्थकल्पने गौरवं, नित्यद्रव्यव्यक्तेश्चकत्वात्तत्र तत्कल्पने लाघवमिति चेत् ? न,तथापि प्रत्येकं विनिगमकाभावात् । रूपादिनिष्टत्वे तस्य सजातीयघटद्वयपर्यन्तः परंपरासम्बन्धो बहुघटितः स्यादिति चेत् ? किं ततो ? नाना. रूपवदवयवारब्धावयविनो नीरूपत्वमते तत्प्रत्यक्षत्वाय परमाणुगतरूपस्य तवृत्तितानियामकसम्बन्धविशेषवदिहापि तादृश