________________
परीक्षन्तां तथा बुधाः ॥ १॥" इति, शास्त्रं युक्त्या परीक्षणीयम् । न तु पक्षपातेन “मनोवत्सो युक्तिगवी, मध्यस्थस्यानुधावति ॥ तामाकर्षति पुच्छेन, तुच्छाग्रहमन:कपिः ॥ १॥" इति माध्यस्थ्यस्यैव तत्त्वनिर्णयमुख्याङ्गत्वात् , पक्षपातस्य तु माध्यस्थ्यविधातकत्वेन तत्त्वबुभुत्सायाः प्रतिबन्धकत्वात् , तत्वबुभुत्साऽभावे च कथं तत्त्वनिश्चायकरूपायां धर्मकथायां प्रवेश ? इति तत्त्वबुभुत्सुना माध्यस्थ्यमास्थाय कपच्छेदतापरूपाभियुक्तिभिः शास्त्रं परीक्षणीयम् ।
अथ किंस्वरूपास्ते कषच्छेदतापाः यैः शास्त्रस्य परीक्षा स्यात् ? इति चेत्, अभियुक्तवचनेनैवोच्यते--
"विधयः प्रतिषेधाश्च, भूयांसो यत्र वर्णिताः ॥ एकाधिकारा दृश्यन्ते, कषशुद्धिं वदन्ति ताम् ॥ १ ॥
विधीनां च निषेधानां, योगक्षेमकरी क्रिया ॥ वर्ण्यते यत्र सर्वत्र, तच्छास्त्रं छेदशुद्धिमत् ।। २ ।।
यत्र सर्वनयालम्बि-विचारप्रबलानिना ॥ तात्पर्यश्यामिका न स्यात् , तच्छास्त्रं तापशुद्धिमत् ॥३॥" ___ इतिस्वरूपैः कषच्छेदतापैः परीक्ष्यमाणं शास्त्रं दोषरहितं प्रतिभाति, तस्यैव शास्त्रस्य सकलजन्तुजातहितोपदेशदायकत्वादिमत्त्वेन प्रमाणविषयत्वात् श्रेयोमार्गत्वम्, न त्वन्येषां शास्त्राभासानामिति । ___ नन्वनाद्यनिधनवेदस्यैव प्रामाण्यं पुरुषस्य भ्रान्तिधर्मत्वेन तद्रचितागमे प्रामाण्यस्याभावादिति चेत् । न, पुरुषसामान्यस्य