________________
त्मकस्य वेदस्य मलविक्षेपनाशकत्वद्वारेण श्रेयोमार्गप्रयोजकत्वं मोक्षे तु वेदान्तस्य ब्रह्मविषयकाज्ञाननाशकत्वेन ब्रह्मसाक्षात्काररूपे हेतुत्वम् ,इत्याद्या अनेका भिन्न भिन्नरूपेण शास्त्रस्य श्रेयोमार्गत्वं प्रति वि. प्रतिपत्तयः । तत्र केन रूपेण शास्त्रस्य श्रेयोमार्गत्वमनाबाधम ? तच्च कस्मिन् शास्त्रे निराबाधमितियुक्त्या मृग्यम् , श्रेयोमार्गप्रयोजकत्वञ्च शास्त्रे प्रमाणत्वेनैव स्वीकरणीयम् , प्रमाणप्रयोजकत्वञ्च सक. लजन्तुजातहितोपदेशदायक-सकलज्ञक्लप्त-मुमुक्षुसत्साधुपरिग्रहपूर्वापरार्थाविरुद्धाभिधायकत्वरूपेणैव प्रामाणिकपरिषदामभिप्रेतम् , तथा चोक्तमनवद्यचातुर्वैद्यविशारदेन श्रीहेमचन्द्रप्रभुणाहितोपदेशात्सकलज्ञक्लप्ते-मुमुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेष्व विरोधसिद्धे-स्त्वदागमा एव सतां प्रमाणम् ।।
॥ अयोगव्यवच्छेदद्वात्रिंशिका ११ ॥ इति, अन्यथोन्मत्तवाक्यादीनामपि प्रमाणत्वापत्तिः, न च प्रमाणप्रयोजकमपि हितोपदेशदायकत्वादिकं विप्रतिपत्तिविषय एवेति कथं निर्णय इति वाच्यं, सद्युक्तिसाम्राज्यजागरूकत्वात् । न च तत्त्वनिर्णये युक्तेरेव प्रयोजकत्वस्वीकारे “ हस्ती हन्तीतिवचने, प्राप्ताप्राप्तविकल्पवत्" गगनमेव विलोकनीयमिति वाच्यं, हस्तीत्यादिवाक्येऽनुभवबाधिकानामेव कुयुक्तीनां निषेधस्यैव स्वीकारात् न तु युक्तिसामान्यानां, अन्यथा प्रामाणिकस्य सदसद्व्यवहारस्य लोपप्रसङ्गः । न च तद्व्यवहारलोपे कर्तुं शक्येष्टापत्तिः, प्रामाणिकपरिषत्प्रवेशाधिकारभङ्गप्रसङ्गात् । तस्मात् “ परीक्षन्ते कपच्छेद-तापैः स्वर्ण यथा जनाः ॥ शास्त्रेऽपि वर्णिकाशुद्धि,