________________
( १८ ) निषेधोभयात्मकावक्तव्यत्वस्य क्वचिद्विधिसम्बलितावक्तव्यत्वस्य कचिनिषेधसम्बलितावक्तव्यत्वस्य क्वचिद् क्रमिकविधिनिषेधोभयसम्बलितस्यावक्तव्यत्वस्य विवक्षातः प्राधान्येन तत् तद् भङ्गतः प्रतीते स्तदन्यस्य गौणतोऽवगमाद् विधिप्रधान एव ध्वनिरित्याये. कान्तोनेकान्तः, युगपत् प्रधानतयापिताभ्यामस्तित्वनास्तित्वाभ्यामेकस्य वस्तुनोऽभिधित्सायां तथा प्रतिपादकस्य कस्यचिच्छब्दस्याभावात् स्यादवक्तव्यं जीवादिवस्त्विति योज्यं भङ्गोऽत्र चतुर्थतया दर्शितः, तं तृतीयतयाकेचित् पठन्ति, स्यादस्त्येव सर्वं, स्या. नास्त्येव सर्वम्, स्यादवक्तव्यमेव सर्वमिति भङ्गत्रयं सकलादेशतया तदन्यभङ्ग चतुष्टयं च विकलादेशतया व्यवहरन्ति, देवसूरिमते सप्तापि भङ्गाः सकलादेशाविकलादेशाश्व, प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा योगपद्येन प्रतिपादकं वचः सकलादेशः, तद्विपरीतस्तु विकला. देशः, इतिमूत्रद्वयलक्षितौ ताववधार्यो । कालादयश्च । ___ "कालात्मरूपसम्बन्धाः संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्वेत्यष्टौकालादयः स्मृताः ॥१॥" इति वचनसन्दर्शिताः, एतेषां सम्यगनुगमनं रत्नाकरावतारिकातो विधेयम् । प्रथमोभङ्गः समहनयेन, द्वितीयभङ्गो व्यवहारनयेन, तृतीयभङ्गो निरुक्तनयाभ्यां, तुर्य ऋजुसूत्रनयेन, पञ्चमः सङ्ग्रहर्जुसूत्राभ्यां, षष्ठो व्यवहार - सूत्राभ्यां, सप्तमस्संग्रहव्यवहारर्जुसूत्ररात्मानमासादयन्तीत्येवं विषयोपदर्शन तत् तदवच्छेदकभेदसमर्थनेन प्रमाणेप्युपयुज्यन्ते नया इति प्रमाण-स्वरूपावेदनानन्तरं नयाः सप्तेति नयस्वरूपावेदनम्, श्रुताख्यप्रमाणविषयीकृतस्यानन्तधर्मात्मकवस्तुन इतरांशोदासीन्ये वैकदेशावधारणात्मकप्रतिपत्रभिप्रायविशेषो नयः, एतत् संवादकमिदं पद्यद्वयम् ।